Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 396
________________ त्रिषष्टिशलाकापुरुषचरिते | प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् । ॥३४७ ।। चित्रीयमाणाश्चित्रैश्चाऽङ्गहारैः करणैरपि । नर्तक्यो ननृतुस्तार, लास्यताण्डवपण्डिताः ।। ७१२ ।। प्रेक्षाञ्चक्रे प्रेक्षणीयानीत्यविघ्नं महीपतिः । यत्र तत्र प्रसक्तानां, प्रभूणां को हि बाधकः ? ॥ ७१३ ॥ सांसारिकसुखान्येवं, भुआनो भरतेश्वरः । स्वामिमोक्षदिनात् पूर्वलक्षाः पञ्चात्यवाहयत् ।। ७१४ ।। अपरेधुः कृतस्नानः, प्रक्लृप्तबलिकर्मकः । देवदूष्यांशुकोन्मृटशरीरः स्रग्विकुन्तलः ।। ७१५ ॥ गोशीर्षचन्दनकृतसर्वाङ्गीणविलेपनः । सर्वाङ्गनिहितानय॑दिव्यरत्नविभूषणः ।। ७१६ ॥ सोऽन्तःपुरनिकेतान्तर्वरस्त्रीपरिवारितः । वेत्रिण्या दर्श्यमानाध्वा, रत्नादर्शगृहं ययौ ।। ७१७ ॥ ॥त्रिभिर्विशेषकम् ।। प्रतिबिम्बितमत्यच्छे, गगनस्फटिकोपमे । यथाप्रमाणं सर्वाङ्ग, रूपं तत्र हिंदृश्यते ।। ७१८ ।। तत्र च प्रेक्षमाणस्य, स्वं वपुर्भरतेशितुः । अङ्गुल्या एकतमस्या, निपपाताऽङ्गुलीयकम् ।। ७१९ ॥ तदङ्गुल्या गलितमप्यङ्गुलीयं महीपतिः । नाऽज्ञासीद् बर्हिणो बर्हभाराद् बेर्हमिवैककम् ।। ७२० ॥ वपुः पश्यन् क्रमेणेक्षाञ्चक्रे तां चयनूमिकाम् । अङ्गुली गलितज्योत्स्ना, दिवा शशिकलामिव ॥७२१ ॥ अहो ! विशोभा किमसावजुलीति विचिन्तयन् । ददर्श पतितं भूमावङ्गलीयं नरेश्वरः ।।७२२ ।। किमन्यान्यपि विशोभान्यङ्गान्याभरणैर्विना ? । इति मोक्तुं स आरेभे, भूषणान्यपराण्यपि ।। ७२३ ॥ आदावुत्तारयामास, माणिक्यमुकुटं नृपः । तद्धीनं च शिरोऽपश्यच्च्युतरत्नामिवोर्मिकाम् ।। ७२४ ।। माणिक्यकुण्डले प्रोज्झ्य, तद्धीनौ च ददर्श सः । कर्णपाशावनन्दू, पूर्वापरदिशाविव ।। ७२५ ॥ * स्निग्धकुन्तलः । + ह्यदृश्यत । भरतश्वरः । १ मयूरस्य । २ पिच्छम् । ३ सूर्यचन्द्रहित । भरतस्य रनादर्शगृहान्तः केवलोत्पत्तिः । ॥३४७ ॥

Loading...

Page Navigation
1 ... 394 395 396 397 398 399