Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 366
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः ॥३१७॥ श्रीऋषभस्वामिचरितम् । | तीर्थकृतः । आयोजनविसर्पिण्या, सर्वभाषानुयातया । भारत्या भगवान् विश्वोपकृत्यै देशनां व्यधात् ॥ २७२ ।। देशनाविरतौ नत्वा, स्वामिनं भरतेश्वरः । रोमाञ्चितवपुर्बद्धाञ्जलिरेवं व्यजिज्ञपत् ।। २७३ ॥ नाथेह भरते यूयं, यथा विश्वहितास्तथा । कत्यन्ये भाविनो धर्मर्चक्रिणश्चक्रिणः कति ? || २७४ ।। तेषां च नगरं गोत्रं, पितरावर्भिधाऽऽयुषी । वर्ण मानान्तरे दीक्षागती च ज्ञापय प्रभो ! ।।२७५ ।। अथाऽऽचचक्षे भगवान्, भरते भाविनोऽपरे । त्रयोविंशतिरहन्त एकादश च चक्रिणः ।। २७६ ।। जिनौ च विशद्वाविंशौ, तत्र गोतमवंशजौ । काश्यपान्वयजास्त्वन्ये, सर्वे निर्वाणगामिनः ।। २७७ ।। अयोध्यायां जितशत्रु-विजयातनयोऽजितः । द्वासप्ततिपूर्वलक्षायुष्को निष्कसमद्युतिः ।। २७८ ।। अर्द्धपञ्चमकोदण्डशतान्युत्तुङ्गविग्रहः । पूर्वाङ्गोनपूर्वलक्षपर्यायोऽसौ भविष्यति ।। २७९ ।। मदीयनिर्वाणाऽजितनिर्वाणकालयोः । सागरोपमकोटीना, लक्षाः पञ्चाशदन्तरम् ।। २८० ।। श्रावस्त्यां जितारि-सेनाभूः स्वर्णाभश्च सम्भवः । षष्टिपूर्वलक्षायुष्कश्चतुर्धन्वशतोच्छ्रयः ।। २८१ ।। चतुःपूर्वाङ्गहीना च, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीना, लक्षाणि त्रिंशदन्तरम् ।। २८२ ।। विनीतापुर्या संवर-सिद्धार्थाजोऽभिनन्दनः । पञ्चाशत्पूर्वलक्षायुः, सार्द्धधन्वशतत्रयः । २८३ ॥ स्वर्णाभः पूर्वलक्षाऽष्टपूर्वाङ्गोनाऽस्य तु व्रते । सागरोपमकोटीना, दशलक्षाणि चाऽन्तरम् ।। २८४ ॥ तत्पुर्या सुमतिर्मेघ मङ्गलाभूः सुवर्णरुक् । सद्विचत्वारिंशत्पूर्वलक्षायुस्त्रिधनुःशतः ।। २८५ ॥ १ सर्वभाषानुगामिन्या ।२ तीर्थकराः । ३ नाम । ४ सुवर्णकान्तिः । ५ शरीरम् ।* चत्वरिंशत्पूर्वलक्षायुर्धनुस्त्रिशतीमितः । ॥३१७ ॥

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399