Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 371
________________ त्रिषष्टिशलाका पुरुषचरिते ।। ३२२ ।। तस्यामेव नगर्यां तु, पुरुषोत्तम आख्यया । पञ्चाशत्कार्मुकोत्तुङ्गः, सोम-सीतातनूरुहः ।। ३४६ ।। वर्त्तमाने जिनेऽनन्ते, त्रिंशल्लक्षाब्दजीवितः । समाप्तायुरसौ षष्टी, नरकोव गमिष्यति ।। ३४७ ।। अश्वपुरे तु पुरुषसिंहो नाम्ना भविष्यति । धर्मनाथजिने पञ्चचत्वारिंशद्धनून्नतिः ।। ३४८ ।। शिवराजा-ऽमृतासूनुर्वर्षलक्षाण्यसौ दश । आयुरनुपाल्य षष्ठीं नरकोव गमिष्यति ।। ३४९ ।। चक्रपुर्यां तु पुरुषपुण्डरीकोऽभिधानतः । अरमल्ल्यन्तरे लक्ष्मीवती - महाशिरः सुतः ।। ३५० ॥ एकोनत्रिंशतं चापानयमुन्नतविग्रहः । पञ्चषष्टिसहस्राब्दायुः षष्ठं नरकं गमी ।। ३५१ ॥ दत्तो वाराणसीपुर्यां, षड्विंशतिधनून्नतिः । जिनान्तरे तु तत्रैव, शेषवत्यग्निसिंहभूः ।। ३५२ ।। षट्पञ्चाशत्सहस्राणि वर्षाणामस्य जीवितम् । गमिष्यति च पूर्णायुः, पञ्चमीं नरकावनीम् ॥ ३५३ ॥ नारायण इति ख्यातः, पुरे राजगृहाह्वये । द्वादशाब्दसहस्रायुर्मुनिनम्यन्तरे त्वसौ ॥ ३५४ ॥ सुमित्रादशरथभूर्धनुःषोडशकोन्नतिः । गमिष्यति च पूर्णायुस्तुरीयां नरकावनीम् ।। ३५५ ।। कुष्णस्तु मथुरापुर्यां, देवकीवसुदेवभूः । वन्दिता नेमिनाथस्य, दशधन्वसमुच्छ्रयः ।। ३५६ ।। सहस्रमेकं वर्षाणामायुरस्य भविष्यति । ततो नरकमेदिन्यां तृतीयायां गमिष्यति ।। ३५७ ।। प्रथमो बलदेवस्तु तत्र भद्रासुतोऽचलः । पञ्चाशीतिवर्षलक्षाण्यायुरस्य भविष्यति ।। ३५८ ॥ द्वितीयस्तु बलदेवो, भावी विजय आख्यया । सुभद्राभूः पञ्चसप्तत्यब्दलक्षाणि जीविता ।। ३५९ ॥ तृतीयस्तु बलदेवो, भद्र इत्यभिधानतः । सुप्रभाभूः पञ्चषष्टिर्वर्षलक्षाणि जीविता ।। ३६० ।। + कैकेयीद । प्रथमं पर्व षष्ठः सर्गः श्रीऋषभ स्वामिचरितम् । बलदेवाः । ।। ३२२ ।।

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399