Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 374
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् । ॥३२५ ॥ एवमात्मकुलमदं, कुर्वाणेन मरीचिना । लूतयेव पुटं नीचगोत्रं सूत्रितमात्मनः ।। ३९० ॥ पुण्डरीकप्रभृतिभिर्वृतो गणधरैरथ । नाथोऽप्यचालीत् प्रघुनन्, विहारव्याजतो महीम् ।। ३९१ ॥ कृपया पुत्रवद् धर्मकौशलं कौशलान् नयन् । तपस्यमुग्धान् मगधान्, कुर्वन् परिचितानिव ॥ ३९२ ।।। काशीन् विकाशयन् पद्मकोशानिव दिवाकरः । आनन्दयन् दशार्णाश्चाऽर्णवानिव निशाकरः ।। ३९३ ॥ देशनासुधया चेदींश्चेतयन् मूर्छितानिव । मालवैर्मालयन धर्मधुरां वत्सतरैरिव ।। ३९४ ॥ कुर्वन् पापैविपन्नाशान्निर्जरानिव गूर्जरान् । सौराष्ट्रान् पटयन् वैद्य, इव शत्रुञ्जयं ययौ ॥ ३९५ ।। ॥पञ्चभिः कुलकम् ।। विदेशमिव वैताळ्यं, क्वचिद् रुप्यशिलाचयैः । स्वर्णग्रावोच्चयैः क्वाऽपि, मेरोस्तटमिवाऽऽहतम् ।।३९६ ॥ क्वचिच्च रत्नखानीभी, रत्नाचलमिवाऽपरम् । क्वाऽप्यौषधीभिर्हिमाद्रिमिव स्थानान्तरस्थितम् ।। ३९७ ॥ आमुक्तचोलकमिवाऽसक्तसंसक्तवारिदैः । स्कन्धावलम्बिसंव्यानमिव निर्झरवारिभिः ।। ३९८ ।। शिरोऽभ्यर्णजुषा सूर्येणोत्किरीटमिवाऽहनि । नक्तं च चन्दनरसतिलकाङ्कमिवेन्दुना ॥३९९ ॥ सहस्रमूर्धानमिव, शृङ्गैर्गगनरोधिभिः । अनेकदोर्दण्डमिव, तुङ्गैस्तालमहीरुहैः ॥ ४०० ॥ नालिकेरीवनैषूच्चैः, पाकपिङ्गासु लुम्बिषु । निजापत्यभ्रमाद् वेगोत्पतप्लवगसङ्कुलम् ।। ४०१ ।। चूतावचायसक्तानां, सौराष्ट्रहरिणीदृशाम् । आकर्ण्यमानमधुरगीतिमुत्कर्णितैर्मृगैः ।। ४०२ ॥ १ करोलियो” इति भाषायाम् । २ पवित्रीकुर्वन् । ३ पापविपत्तिविनाशान् । ४ देवानिव । ५ फलगुच्छेषु । ६ आमावचयनासक्तानाम् । * मुत्कर्णकैz। श्रीऋषभस्वामिविहारः । ॥३२५ ॥

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399