________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः
सर्गः
॥३१७॥
श्रीऋषभस्वामिचरितम् ।
| तीर्थकृतः ।
आयोजनविसर्पिण्या, सर्वभाषानुयातया । भारत्या भगवान् विश्वोपकृत्यै देशनां व्यधात् ॥ २७२ ।। देशनाविरतौ नत्वा, स्वामिनं भरतेश्वरः । रोमाञ्चितवपुर्बद्धाञ्जलिरेवं व्यजिज्ञपत् ।। २७३ ॥ नाथेह भरते यूयं, यथा विश्वहितास्तथा । कत्यन्ये भाविनो धर्मर्चक्रिणश्चक्रिणः कति ? || २७४ ।। तेषां च नगरं गोत्रं, पितरावर्भिधाऽऽयुषी । वर्ण मानान्तरे दीक्षागती च ज्ञापय प्रभो ! ।।२७५ ।। अथाऽऽचचक्षे भगवान्, भरते भाविनोऽपरे । त्रयोविंशतिरहन्त एकादश च चक्रिणः ।। २७६ ।। जिनौ च विशद्वाविंशौ, तत्र गोतमवंशजौ । काश्यपान्वयजास्त्वन्ये, सर्वे निर्वाणगामिनः ।। २७७ ।। अयोध्यायां जितशत्रु-विजयातनयोऽजितः । द्वासप्ततिपूर्वलक्षायुष्को निष्कसमद्युतिः ।। २७८ ।। अर्द्धपञ्चमकोदण्डशतान्युत्तुङ्गविग्रहः । पूर्वाङ्गोनपूर्वलक्षपर्यायोऽसौ भविष्यति ।। २७९ ।। मदीयनिर्वाणाऽजितनिर्वाणकालयोः । सागरोपमकोटीना, लक्षाः पञ्चाशदन्तरम् ।। २८० ।। श्रावस्त्यां जितारि-सेनाभूः स्वर्णाभश्च सम्भवः । षष्टिपूर्वलक्षायुष्कश्चतुर्धन्वशतोच्छ्रयः ।। २८१ ।। चतुःपूर्वाङ्गहीना च, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीना, लक्षाणि त्रिंशदन्तरम् ।। २८२ ।। विनीतापुर्या संवर-सिद्धार्थाजोऽभिनन्दनः । पञ्चाशत्पूर्वलक्षायुः, सार्द्धधन्वशतत्रयः । २८३ ॥ स्वर्णाभः पूर्वलक्षाऽष्टपूर्वाङ्गोनाऽस्य तु व्रते । सागरोपमकोटीना, दशलक्षाणि चाऽन्तरम् ।। २८४ ॥ तत्पुर्या सुमतिर्मेघ मङ्गलाभूः सुवर्णरुक् । सद्विचत्वारिंशत्पूर्वलक्षायुस्त्रिधनुःशतः ।। २८५ ॥ १ सर्वभाषानुगामिन्या ।२ तीर्थकराः । ३ नाम । ४ सुवर्णकान्तिः । ५ शरीरम् ।* चत्वरिंशत्पूर्वलक्षायुर्धनुस्त्रिशतीमितः ।
॥३१७ ॥