________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३१८ ॥
तीर्थकृतः ।
द्वादशपूर्वाङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवलक्षाणि चाऽन्तरम् ।। २८६ ।। ___ कौशाम्ब्यां धर-सुसीमासूनुः पद्मप्रभोऽरुणः । त्रिंशत्पूर्वलक्षायुष्कः, सार्द्धधन्वशतद्वयः ।। २८७ ॥ षोडशपूर्वाङ्गन्यूनो, पूर्वलक्षोऽस्य तु व्रते । अब्धिकोटिसहस्राणां, नवतिः पुनरन्तरम् ॥२८८ ॥ __वाराणस्यां तु प्रतिष्ठ-पृथ्वीसूनुः सुवर्णरुक् । सुपार्थो विंशतिपूर्वलक्षायुर्विधनुःशतः ।। २८९ ।। विंशत्यङ्गविहीनोऽस्य, पूर्वलक्षो व्रते पुनः । सागरोपमकोटीना, सहस्राणि नवाऽन्तरम् ।। २९० ॥ - चन्द्रानने महासेन-लक्ष्मणाभूः शशिप्रभः । दशपूर्वलक्षायुष्कः, शुभ्रः सार्धधनुःशतः ।। २९१ ॥
चतुर्विंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीना, शतानि नव चाऽन्तरम् ।। २९२ ॥ ___ काकन्द्यां सुग्रीव-रामातनयः सुविधिः सितः । पूर्वलक्षद्वयायुष्क, एकधन्वशतोच्छ्रयः ।।२९३ ॥ अथविंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवतिः पुनरन्तरम् ।। २९४ ।।
शीतलो भद्रिलपुरे, नन्दा-दृढरथात्मजः । स्वर्णाभः पूर्वलक्षायुर्धनुर्नवतिमुच्छ्रितः ॥ २९५ ॥ अमुष्य तु व्रते पूर्वसहस्राः पञ्चविंशतिः । अन्तरं तु सरिन्नाथोपमानां कोटयो नव ।।२९६ ।।
सिंहपुरे विष्णुराज-विष्ण्वोः सूनुः सुवर्णरुक् । श्रेयांसस्तु जिनोऽशीतिशरासनसमुन्नतिः ॥ २९७ ।। वर्षाणां चतुरशीत्या, लक्षः प्रमितजीवितः । अमुष्य तु व्रते वर्षलक्षाणामेकविंशतिः ॥२९८ ॥ षड्विशत्याऽब्दसहस्रः, षट्षष्ट्या वर्षलक्षकैः । तथाऽर्णवशतेनोनाऽर्णवकोटिर्जिनान्तरम् ।। २९९ ।।
चम्पापुर्यां वासुपूज्यो, वसुपूज्य-जयात्मजः । द्वासप्तत्यब्दलक्षायुर्धनुःसप्ततिमुन्नतः ।। ३०० ।। रक्तोऽस्य चतुःपञ्चाशद्वर्षलक्षाणि तु व्रतम् । तथा सागरोपमाणां, चतुःपञ्चाशदन्तरम् ॥३०१ ।।
॥३१८ ॥