________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३१९ ॥
तीर्थकृतः ।
काम्पिल्ये च कृतवर्म-श्यामाभूर्विमलो जिनः । षष्टिवत्सरलक्षायुः, षष्टिधन्वा सुवर्णरुक् ॥ ३०२ ।। अमुष्य च पञ्चदश वर्षलक्षाणि तु व्रतम् । वासुपूज्यान्ततन्मोक्षान्तरे च त्रिंशदर्णवाः ।। ३०३ ।।
अयोध्यायां सिंहसेन-सुयशोभूः सुवर्णरुक् । अनन्तस्त्रिशल्लक्षाब्दायुः पञ्चाशद्धनून्नतिः ।। ३०४ ।। सार्द्धानि वर्षलक्षाणि, सप्त तस्य पुनव्रतम् । विमलमोक्षतन्मोक्षान्तरे च नव सागराः ।। ३०५ ॥
धर्मो रत्नपुरे, भानु-सुव्रताभूः सुवर्णरुक् । दशाब्दलक्षायुः पञ्चचत्वारिंशद्धनून्नतिः ॥ ३०६ ।। पर्यायस्तस्य वर्षाणां, सार्द्ध लक्षद्वयं खलु । अनन्तमोक्षतन्मोक्षान्तरेऽर्णवचतुष्टयम् ।। ३०७ ।।
पुरे गजपुरे शान्तिर्विश्वसेना-ऽचिरासुतः । स्वर्णवर्णोऽब्दलक्षायुश्चत्वारिंशद्धनून्नतिः ॥ ३०८ ।। पञ्चविंशतिरब्दानां, सहस्राण्यस्य तु व्रते । अब्धित्रयं पल्यचतुर्भागत्रिकोनमन्तरम् ।। ३०९ ॥
कुन्थुर्गजपुरे स्वर्णवर्णः सूर-श्रियोः सुतः । पञ्चनवत्यब्दसहस्रायुः पल्यार्द्धकान्तरः ।। ३१० ॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पर्यायेऽस्य तु वत्सराः । त्रयोविंशतिसहस्राः, सार्द्धसप्तशतानि च ।। ३११ ॥
स्वर्णाभोऽरो गजपुरे, देवी-सुदर्शनात्मजः । चतुरशीत्यब्दसहस्रायुस्त्रिशद्धनून्नतिः ॥ ३१२ ।। पर्याये तस्य वर्षाणां, सहस्राण्येकविंशतिः । पल्यतुर्यांशोऽब्दकोटिसहस्रोनो जिनान्तरम् ।।३१३ ॥ __ मल्लिनाथो मिथिलायां, कुम्भ-प्रभावतीप्रसूः । पञ्चविंशतिधन्वाऽब्दकोटीसहस्रकान्तरः ।।३१४ ।। नीलोऽस्याऽब्दसहस्राणि, पञ्चपञ्चाशदायुषि । एकवर्षशतोनानि, पूर्वोक्ताब्दानि तु व्रते ।। ३१५ ॥
पद्मा-सुमित्रसू राजगृहे कृष्णस्तु सुव्रतः । त्रिंशद्वर्षसहस्रायुर्धनुर्विंशतिमुन्नतः ।। ३१६ ।। सप्तवर्षसहस्राणि, सार्द्धान्येतस्य तु व्रतम् । चतुष्पञ्चाशदब्दानां, लक्षाणि तु जिनान्तरम् ।। ३१७ ।।
॥३१९ ।।