________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३२०॥
चक्रवर्तिनः ।
मिथिलायां स्वर्णवर्णो, वप्रा-विजयभूमिः । दशवर्षसहस्रायुः, पञ्चदशधनून्नतिः ॥३१८ ।। समासहसद्वितयं, सार्द्धमेतस्य तु व्रतम् । मोक्षान्तरं मुनिनम्योर्वर्षलक्षाः षडेव हि ।।३१९ ।। शिवा-समुद्रविजयात्मजः शौर्यपुरे शितिः । नेमिर्दशधनुस्तुङ्गः, समासहस्रजीवितः ।।३२० ॥ शतानि सप्त वर्षाणां, प्रव्रज्यायाममुष्य तु । मुक्त्यन्तरे नमिनेम्योर्वर्षलक्षाणि पञ्च तु ॥३२१ ।। वामा-ऽश्वसेनभूः पावो, वाराणस्यां विनीलरुक् । नवहस्तप्रमाणाङ्गः, शतवत्सरजीवितः ।। ३२२ ॥ वर्षाणां सप्ततिस्तस्य, व्रतेऽन्तरे तु वत्सराः । सहस्राणि त्र्यशीतिः सानि सप्तशतानि च ।। ३२३ ।। कुण्डग्रामे महावीरः, सिद्धार्थ-त्रिशलासुतः । स्वर्णाभः सप्तहस्ताङ्गो, द्वासप्तत्यब्दजीवितः ॥ ३२४ ।। द्वाचत्वारिंशदब्दानि, प्रव्रज्यायाममुष्य च । पार्श्ववीरान्तरालं तु, सार्द्ध वर्षशतद्वयम् ।। ३२५ ।। काश्यपाश्चक्रिणः स्वर्णवर्णा अष्टेषु मोक्षगाः । त्वं मयीवाऽजिते तत्राऽयोध्यायां सगरः खलु ।। ३२६ ॥ तुक् सुमित्र-यशोमत्योः, सार्द्धधन्वचतुःशतः । द्वासप्तत्या पूर्वलक्षः, स तु प्रमितजीवितः ।। ३२७ ।। श्रावस्त्यां मघवा भद्रा-समुद्रविजयात्मजः । पञ्चाब्दलक्षायुः सार्द्धद्विचत्वारिंशधन्वकः ।। ३२८ ॥ सनत्कुमारोऽब्दलक्षत्रयायुर्हस्तिनापुरे । प्राग्मानादेकधन्वोनः, सहदेव्यश्वसेनभूः ।। ३२९ ॥ धर्मशान्त्यन्तरे चैतौ, तृतीयस्वर्गगामिनौ । शान्तिः कुन्थुररश्चैतेऽर्हन्तश्चक्रभृतोऽपि च ॥३३० ॥ तारा-कृतवीर्यसुतः, सुभूमो हस्तिनापुरे । षष्टिवर्षसहस्रायुरष्टाविंशिधनून्नतिः ।। ३३१ ॥ १ श्यामवर्णः, + वर्षाणि । व्रतेऽगादन्तरे पुनः, दीक्षायामन्तरे पुनः, २ काश्यपगोत्रिणः । ३ पुत्रः ।
॥३२० ॥