________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥३१६ ।।
इतश्च भरतस्तस्थौ, दिवसानतिवाहयन् । श्राद्धदानैः कामकेल्या, विनोदैरपरैरपि ।। २५७ ॥ अवनिं पावयन् पादैर्गगनं चन्द्रमा इव । अन्येधुर्भगवानागादष्टापदमहागिरिम् ।। २५८ ।। सद्यश्च तत्र समवसरणे निर्मिते सुरैः । आसाञ्चक्रे जगन्नाथो, विदधे धर्मदेशनाम् ।। २५९ ।। तथास्थितो जगत्स्वामी, समेत्याऽऽयुक्तपूरुषैः । शशंसे भरतेशाय, त्वरितैरनिलैरिव ॥ २६० ।। पूर्वप्रमाणं तेभ्योऽदाद्, भरतः पारितोषिकम् । दिने दिने कल्पतरुर्ददानो न हि हीयते ॥२६१ ।। अष्टापदे च समवसृतं स्वामिनमेत्य सः । प्रदक्षिणीकृत्य नमस्कृत्य चक्रीति तुष्टुवे ।। २६२ ॥ त्वत्प्रभावात् स्तवीमि त्वामप्राज्ञोऽपि जगत्पते ! । शशिनं पश्यतां दृष्टिर्मन्दाऽपि हि पटूयते ।। २६३ ।। मोहान्धकारनिर्मग्न जगदालोकदीपक ! । आकाशवदनन्तं ते स्वामिन् ! जयति केवलम् ।। २६४ ।। प्रमादनिद्रामग्नानां नाथ ! कार्येण मादृशाम् । एवं गतागतानि त्वं, करोष्यर्क इवाऽसकृत् ।। २६५ ।। जन्मलक्षार्जितं कर्म, त्वदालोका विलीयते । कालेन दृषदीभूतमप्याज्यं वह्निना द्रवेत् ।। २६६ ।। एकान्तसुषमातोऽपि, साध्वी सुषमदुःषमा । यत्र कल्पद्रुमेभ्यस्त्वं, विशिष्टफलदोऽभवः ॥२६७ ॥ समस्तभुवनेशेदं, भुवनं भूषितं त्वया । राज्ञा पुरीव ग्रामेभ्यो, भुवनेभ्यः प्रकृष्यते ॥२६८ ।। पिता माता गुरुः स्वामी, यत् सर्वेऽपि न कुर्वते । एकोऽप्यनेकीभूयेव, त्वं हितं विदधासि तत् ॥२६९।। निशा निशाकरेणेव, हंसेनेव महासरः । वदनं तिलकेनेव, शोभते भुवनं त्वया ।।२७०।। | इति स्तुत्वा नमस्कृत्य, भगवन्तं यथाविधि । निषसाद यथास्थानं, विनयी भरतेश्वरः ।। २७१ ॥ १ नियुक्तपुरुषैः । २ समर्था भवति । ३ स्त्यानीभूतम् । ४ घृतम् ।
प्रभोरष्टापदे समवसरणं ।
।।३१६ ।।