________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३१५ ॥
अर्द्धवर्षेऽर्द्धवर्षे च, परीक्षा चक्रिरे नवाः । श्रावकाः काकिणीरत्नेनाऽऽलम्ब्यन्त तथैव हि ।। २४२ ॥ तल्लाञ्छना भोजनं ते, लेभिरेऽथाऽपठन्निदम् । जितो भवानित्याधुच्चैर्माहनास्ते ततोऽभवन् ।। २४३ ।। निजान्यपत्यरूपाणि, साधुभ्यो ददिरे च ते । तन्मध्यात् स्वेच्छया कैश्चिद्, विरक्तैर्ऋतमाददे ।। २४४ ।। परीषहासहै: कैश्चिच्छ्रावकत्वमुपाददे । तथैव बुभुजे तैश्च, काकिणीरत्नलाञ्छितैः ।। २४५ ॥ भूभुजा दत्तमित्येभ्यो, लोकोऽपि श्रद्धया ददौ । पूजितैः पूजितो यस्मात्, केन केन न पूज्यते ? ॥२४६ ।। अर्हत्स्तुतिमुनिश्राद्धसामाचारीपवित्रितान् । आर्यान् वेदान् व्यधाच्चक्री, तेषां स्वाध्यायहेतवे ।। २४७ ।। क्रमेण माहनास्ते तु, ब्राह्मणा इति विश्रुताः । काकिणीरत्नलेखास्तु, प्रापुर्यज्ञोपवीतताम् ॥ २४८ ।। इयं भरतराज्येऽभूत्, स्थितिरर्कयशाः पुनः । स्वर्णयज्ञोपवीतानि, चक्रे काकिण्यभावतः ।। २४९ ।। महायशः प्रभृतयः, केचिद् रौप्याणि चक्रिरे । पट्टसूत्रमयान्यन्येऽपरे सूत्रमयानि तु ।। २५० ।। ।। युग्मम्।। भरतादादित्ययशास्ततश्चाऽऽसीन्महायशाः । अतिबलो बलभद्रो, बलवीर्यस्ततोऽपि च ।। २५१ ।। कीर्तिवीर्यो, जलवीर्यो, दण्डवीर्यस्ततोऽष्टमः । इत्यष्टौ पुरुषान् यावादाचारोऽयं प्रवृत्तवान् ॥२५२ ॥ एभिर्भूपैश्च बुभुजे, भरतार्धं समन्ततः । भगवन्मुकुटः शक्रोपनीतो मूर्ध्यधारि च ।। २५३ ।। शेषैर्महाप्रमाणत्वान्न स वोढुमपार्यत । हस्तिभिर्हस्तिभारो हि, वोढुं शक्येत नाऽपरैः ।। २५४ ।। जज्ञे साधुविच्छेदोऽन्तर्नवमदशमार्हतोः । एवं सप्तस्वन्तरेषु, जिनानामेष वृत्तवान् ।। २५५ ॥ वेदाश्चाऽर्हत्स्तुतियतिश्राद्धधर्ममयास्तदा । पश्चादनार्याः सुलसायाज्ञवल्क्यादिभिः कृताः ॥२५६ ॥ * काकणी । + काकणी । काकणी । काकण्य । १ सुविधिशीतलाख्यतीर्थकृतोः ।
भरतेनार्थवेदानां निर्माणम् ।
अनार्यवेदाः ।
।।३१५ ॥