________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामि|चरितम् ।
।।३१४ ।।
भरतोऽथ समाहूय, श्रावकानभ्यधादिदम् । गृहे मदीये भोक्तव्यं, युष्माभिः प्रतिवासरम् ॥ २२७ ।। कृष्यादि न विधातव्यं, किन्तु स्वाध्यायतत्परैः । अपूर्वज्ञानग्रहणं, कुर्वाणैः स्थेयमन्वहम् ।। २२८ ।। भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा । जितो भवान् वर्धते भीस्तस्मान्मा हन मा हन ।। २२९ ॥ प्रतिपद्य तथा ते तु, भुञ्जते स्म तदोकसि । तथा च तद् वचः पेठुः, स्वाध्यायमिव तत्पराः ।। २३० ।। रतिमनो देव इव, नृदेवोऽपि प्रमद्वरः । तच्छब्दाकर्णनादेव, किञ्चिदेवं व्यचिन्तयत् ।। २३१ ।। जितोऽस्मि केन ? हुं ज्ञातं, कषायैर्वर्धते च भीः ।कुतो मे तेभ्य एवेति, मा हन्यां प्राणिनस्ततः ।। २३२ ।। एवं च स्मारयन्त्येते, नित्यमेव विवेकिनः । अहो ! मम प्रमादित्वमहो ! विषयलुब्धता ।। २३३ ।। औदासीन्यमहो ! धर्मेऽप्यहो ! संसाररागिता । अहो ! महापुरुषतोचिताचारविपर्ययः ।। २३४ ।। अनया चिन्तया धर्मध्यानं प्रावर्त्तत क्षणम् । गङ्गाप्रवाहः क्षाराब्धाविव तस्मिन् प्रमादिनि ।। २३५ ।। भूयोऽपि भूपः शब्दादिष्विन्द्रियार्थेष्वसज्यत । कर्म भोगफलं कोऽपि, नाऽन्यथा कर्तुमीश्वरः ।। २३६ ।। सूर्याध्यक्षैरथाऽन्येधुरेवं व्यज्ञपि भूपतिः । श्रावकोऽश्रावको वाऽपि, भूयस्त्वान्नोपलक्ष्यते ।। २३७ ।। आदिशद् भरतः सूदान्, श्राद्धा यूयमपि स्थ यत् । परीक्षापूर्वकं देयमतः प्रभृति भोजनम् ।। २३८ ॥ भवान् ? श्रावकोऽहं, तव्रतानि कति ? शंस नः । तानि न श्रावकाणां स्युः, किन्त्वस्माकं सदाऽपि हि ॥२३९ ॥ अणुव्रतानि पञ्चाऽथ, सप्त शिक्षाव्रतानि च । एवं परीक्षानियूंढास्तैस्तेऽदय॑न्त भूपतेः ।। २४० ॥ ज्ञानदर्शनचारित्रलिङ्गं रेखात्रयं नृपः । वैकक्ष्यमिव काकिण्या, विदधे शुद्धिलक्षणम् ।। २४१ ॥ १ पाचकाधिपतिभिः । २ तिर्यक्कक्षावलम्बी हारभेदः ।
भरतेन श्रावकेभ्यो भोजनदानम् ।
SHAHARASHARASIRSASARAS
॥३१४ ॥