________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामि
॥३१३ ॥
चरितम् ।
इन्द्रस्य रुपम् ।
गुणोत्तरेभ्यो दातव्यमिति शक्रेण भाषिते । एवं स दध्यौ मम के, विना साधून गुणोत्तराः ।। २१२ ॥
आः ! ज्ञातमथवा सन्ति, विरताविरताः खलु । गुणोत्तराः श्रावका मे, तेभ्यो देयमिदं मया ॥ २१३ ॥ कर्त्तव्यं तच्च निश्चित्य, चक्रवर्ती दिवस्पतेः । भास्वदाकृतिक रूपं, दृष्ट्वा पप्रच्छ विस्मितः ॥२१४ ॥ किमीदृशेन रूपेण, यूयं स्वर्गेऽपि तिष्ठथ ? । रूपान्तरेण यदि वा, कामरूपा हि नाकिनः ।। २१५ ॥ देवराजोऽब्रवीद् राजन्निदं रूपं न तत्र नः । यत् तत्र रूपं तन्मत्यैर्न द्रष्टुमपि पार्यते ।। २१६ ॥ भरतः पुनरप्यूचे, सहस्राक्ष ! ममोच्चकैः । यौष्माकीणस्य रूपस्य, दर्शने तस्य कौतुकम् ।। २१७ ॥ तस्या दिव्याकृतेः स्वस्या, दर्शनेन दिवस्पते! । परिप्रीणय मे चक्षुश्चकोरमिव चन्द्रमाः ।। २१८ ॥ त्वं पुमानुत्तमोऽसीति, मा तेऽभूत् प्रणयो मुधा । तदेकमगावयवं, दर्शयिष्यामि भूपते ! ।। २१९ ।। इत्युदीर्य शुनासीरो, योग्यालङ्कारशालिनीम् । स्वाङ्गुली दर्शयामास, जगद्वेश्मैकदीपिकाम् ।। २२०॥ पार्वणेन्दुमिवोदन्वान्, विकसद्भासुरद्युतिम् । तां महेन्द्राङ्गुली दृष्ट्वा, मुमुदे मेदिनीपतिः ।। २२१ ॥ भगवन्तं प्रणम्याऽथ, राजानमनुमान्य च । शतमन्युस्तिरोऽधत्त, सन्ध्याभ्रमिव तत्क्षणात् ।। २२२ ॥ स्वामिनं प्रणिपत्याऽथ, चक्रवर्त्यपि शक्रवत् । कृत्यानि चिन्तयश्चित्ते, विनीतां नगरी ययौ ॥२२३ ॥ शक्राङ्गुली न्यस्य रानी, भरतोऽष्टाह्निकां व्यधात् । भक्तौ स्नेहे च सतां. कर्त्तव्यं तुल्यमेव हि ।। २२४ ।। इन्द्रस्तम्भ समुत्तभ्य, ततः प्रभृति सर्वतः । इन्द्रोत्सवः समारब्धो, लोकैरद्याऽपि वर्तते ।। २२५ ॥ विजहार ततोऽन्यत्राऽष्टापदाद् भगवानपि । भव्याब्जबोधकृत क्षेत्रात, क्षेत्रान्तरमिवाऽर्यमा ।। २२६ ॥ १ प्रार्थना । २ इन्द्रः ।
॥३१३ ॥