________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः | श्रीऋषभस्वामिचरितम् ।
॥३१२ ॥
अवग्रहः ।
एवं निषिद्धो भोगेषु, स्वामिना भरतेश्वरः । भूयो विचिन्तयामास, सानुतापेन चेतसा ॥ १९७ ।। यदि तावदमी त्यक्तसङ्गा भोगान् न भुञ्जते । तथाऽपि तावदाहारं, भोक्ष्यन्ते प्राणधारणम् ।। १९८ ।। एवं विचिन्त्य शकटशतैः पञ्चभिरुच्चकैः । आनाय्याऽऽहारमनुजान्, न्यमन्त्रयत् स पूर्ववत् ।। १९९ ।। स्वामी भूयोऽप्युवाचैवमन्नादि भरतेश्वरः । आधाकर्माऽऽहृतं जातु, यतीनां न हि कल्पते ।।२०० ।। एवं निराकृतो भूयोऽप्यकृताकारितेन सः । अन्नेनाऽऽमन्त्रयाञ्चक्रे, शोभते सर्वमोर्जवे ।। २०१ ।। राजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते । एवं भूयो निराचक्रे, चक्रभृद् धर्मचक्रिणा ।। २०२ ।। स्वामिना प्रतिषिद्धोऽस्मि, सर्वथेति महीयसा । अदूयताऽनुतापेन, राहुणेव निशाकरः ।। २०३ ।। उपलक्ष्य विलक्षत्वं, सहस्राक्षः क्षमापते । पप्रच्छ स्वामिनमिति, कतिधा स्यादवग्रहः ? ।। २०४ ॥ स्वाम्यपि व्याजहारैवं, पञ्चधा स्यादवग्रहः । इन्द्रचक्रिनृपागारिसाधुसम्बन्धिभेदतः ।। २०५ ॥ उत्तरेणोत्तरेणैषां, पूर्वः पूर्वः प्रबाध्यते । विधिः परोक्तो बलवान्, यत् पूर्वोक्तपरोक्तयोः ।। २०६ ।। शक्रोऽप्यूचेऽवग्रहे मे, साधवो विहरन्ति ये । तदमीषां मया देवानुजज्ञेऽवग्रहो निजः ।। २०७ ।। इत्युदित्वा स्वामिपादान, वन्दित्वाऽवस्थिते हरौ । एवं सञ्चिन्तयामास, भूयोऽपि भरतेश्वरः ।। २०८ ॥ एभिर्मदीयं मुनिभिर्यद्यप्यन्नादि नाऽऽदृतम् । अवग्रहानुज्ञयाऽद्य, कृतार्थः स्यां तथाऽप्यहम् ।। २०९ ॥ सम्प्रधार्येति हृदये, हृदयालुर्महीपतिः । शक्रवत् स्वामिपादाग्रेऽन्वज्ञासीत् स्वमवग्रहम् ।।२१०॥ सब्रह्मचारिणमिवेत्यपृच्छद् वासवं च सः । मया कि कार्यममुना, भक्तपानादिनाऽधुना ? || २११ ।। १ पश्चात्तापसहितेन । २ सरलत्वे । ३ तीर्थकरेण । ४ इन्द्रः । ५ इन्द्रे ।
॥३१२॥