________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ३११ ॥
इत्थं प्रथमवप्रान्तस्तस्थौ सङ्घश्चतुर्विधः । चतुर्विधो धर्म इवाऽनवद्ये स्वामिशासने ।। १८३ ॥ प्राकारे च द्वितीयस्मिंस्तिर्यञ्चस्तस्थुरुन्मुदः । विरोधिनोऽपि हि मिथः, सस्नेहाः सोदरा इव ।। १८४ ।। तार्तीयीके पुनर्वप्रे, नृपादीनामुपेयुषाम् । देशनाकर्णनोत्कर्णास्तस्थुर्यानेपरम्पराः ।। १८५ ।। सर्वभाषानुगामिन्या, मेघनिर्घोषधीरया । गिरा त्रिभुवनवामी, विदधे धर्मदेशनाम् ।। १८६ | आसक्तभारनिर्मुक्ता, इवाऽऽप्तेष्टपदा इव । कृताभिषेककल्याणा, इव ध्यानस्थिता इव ।। १८७ ॥ प्राप्ता इवाऽहमिन्द्रत्वं परं ब्रह्म गता इव । शृण्वन्तो देशनां हर्षात्, तस्थुस्तिर्यग्नरामराः ।। १८८ ॥ ॥ युग्मम् ॥
देशनान्ते च भरतो, भ्रातॄनात्तमहाव्रतान् । निरीक्ष्य समनस्तापो, मनस्येवमचिन्तयत् ॥ १८९ ॥ बन्धूनां गृह्णता राज्यमेतेषां किं कृतं मया ? । अनारतमतृप्तेन, भस्मकामयिनेव हा ! ।। १९० ॥ अन्येभ्योऽपि ददानोऽस्मि, लक्ष्मीं भोगफलामिमाम् । तच्च मे भस्मनि हुतमिव मूढस्य निष्फलम् ।। १९१ ।। काकोऽप्याहूय काकेभ्यो, दत्त्वाऽन्नाद्युपजीवति । ततोऽपि हीनस्तदहं भोगान् भुञ्जे विना ह्यमून् ।। १९२ ।। दीयमानान् यदि पुनर्भोगान् भूयोऽपि मच्छुभैः । आददीरन्नमी भिक्षां, मासक्षपणिका इव ।। १९३ ॥ एवमालोच्य भरतः, पादमूले जगद्गुरोः । भ्रातॄन् निमन्त्रयामास, भोगाय रचिताञ्जलिः ।। १९४।। प्रभुरप्यादिदेशैवमृज्वाशय ! विशाम्पते ! । भ्रातरस्ते महासत्त्वाः, प्रतिज्ञातमहाव्रताः ।। १९५ । संसारासारतां ज्ञात्वा, परितस्त्यक्तपूर्विणः । न खलु प्रतिगृह्णन्ति, भोगान् भूयोऽपि वान्तवत् ॥। १९६ ।। ॥ युग्मम् ॥
१ वाहनपरम्पराः । २ मनःसन्तापसहितः । ३ भस्मकरोगिणेव । ४ मासोपवासिनो मुनयः ।
प्रथमं पर्व
षष्ठः
सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
श्रीऋषभ
स्वामि
देशनाः ।
।। ३११ ।।