________________
त्रिषष्टिशलाका
पुरुषचरिते
।। ३१० ।।
हर्षत्वराभ्यां युग्मिभ्यामिव कल्पद्रुरन्वितः । सान्तःपुरपरीवारः, सोऽगादष्टापदं क्षणात् ॥ १६९ ॥ ।। त्रिभिर्विशेषकम् ।।
सोऽवरुह्य गजात् तस्मादारुरोह महागिरिम् । गृहस्थधर्मादुत्तुङ्ग, चारित्रमिव संयमी ।। १७० ।। उदग्द्वारेण समवसरणं प्रविवेश सः । प्रभुं ददर्श चाऽऽनन्दकन्दलोद्गमवारिदम् ।। १७१ ।। त्रिश्च प्रदक्षिणां कृत्वा, नत्वा च चरणौ प्रभोः । बद्धाञ्जलिः शिरस्येवमारेभे भरतः स्तुतिम् ।। १७२ ।। कुम्भैर्मानमिवाऽम्भोधेः, स्तवनं मादृशैस्तव । स्तोष्यामि तदपि स्वामिन् !, भक्त्या ह्यस्मि निरङ्कुशः ॥ १७३ ॥ त्वदाश्रितास्त्वया तुल्या, भवन्ति भविनः प्रभो ! । यान्ति दीपस्य सम्पर्काद्, वर्त्तयोऽपि हि दीपताम् ॥ १७४ ॥ माद्यदिन्द्रियदन्तीन्द्रामदीकरणभेषजम् । तव स्वामिन् ! विजयते, शासनं मार्गशासनम् ।। १७५ ।। हत्वा घातीनि कर्माणि, शेषकर्माण्युपेक्षसे । भुवनानुग्रहायैव, मन्ये त्रिभुवनेश्वर ! ।। १७६ ।। पादलग्नास्तव विभो !, लङ्घन्ते भविनो भवम् । उदन्वन्तं पक्षिराजपक्षमध्यगता इव ।। १७७ ।। जयत्यनन्तकल्याणद्रुमोल्लासनदोहदम् । विश्वमोहमहानिद्राप्रत्यूषं दर्शनं तव ।। १७८ ॥ त्वत्पदाम्भोजसंस्पर्शाद्, दीर्यते कर्म देहिनाम् । इन्दोर्मृदुभिरप्युसैर्दन्तिदन्ताः स्फुटन्ति हि ।। १७९ ।। वृष्टिर्वारिधरस्येव, मृगाङ्कस्येव चन्द्रिका । जगन्नाथ ! प्रसादस्ते, सर्वसाधारणः खलु ।। १८० ।। एवं जगत्पतिं स्तुत्वा, नत्वा च भरतेश्वरः । निषसाद हरेः पृष्ठे, सामानिक इवाऽमरः ।। १८१ ॥ दिवौकसां पृष्ठतश्च निषेदुरपरे नराः । नराणां पृष्ठतो नार्य, ऊद्धर्वा एवाऽवतस्थिरे ।। १८२ ॥
। समुद्रम् । २ रश्मिभिः ।
प्रथमं पर्व
षष्ठः
सर्गः
श्रीऋषभस्वामिचरितम् ।
श्रीऋषभ
स्तुतिः ।
।। ३१० ।।