________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथम पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३०९ ॥
जगणुर्दन्तिनस्तार, वाजिनश्च जिहेषिरे । त्वरयन्त इव स्वामियानाय स्वाधिरोहकान् ॥ १५५ ।। रथिनः पत्तयश्चेयुः, प्रमोदपुलकाञ्चिताः । राजाज्ञा भगवद्याने, सुगन्धिस्वर्णसन्निभा ।। १५६ ।। सैन्यान्याष्टापदायोध्यं, न मान्ति स्म स्थितान्यपि । महानिर्झरिणीपूरपयांसीवाऽऽतटीद्वयम् ।। १५७ ॥ श्वेतातपत्रैर्मायूरातपत्रैश्च वियत्यपि । मन्दाकिनीयमुनयोर्वेणीसङ्ग इवाऽभवत् ।। १५८ ।। सादिवीरकराग्रस्थाः, स्फुरद्भिः स्वैर्मरीचिभिः । कुन्ता अपि समुत्क्षिप्तकुन्ता इव चकाशिरे ।। १५९ ॥ गर्जद्भिर्जितं हर्षादारूढैर्वीरकुञ्जरैः । कुञ्जरा अपि चोदूढकुञ्जरा इव रेजिरे ॥ १६० ॥ चक्रितोऽप्यौत्सुकायन्त, सैन्या नन्तुं जगत्पतिम् । असिकोशस्तदसितो, नितान्तं निर्शितोऽभवत् ।। १६१ ।। सर्वतो मिलिताः सैन्या, महाकोलाहलेन ते । द्वाःस्थेनेव न्यवेद्यन्त, मध्यस्थस्याऽपि चक्रिणः ॥ १६२ ॥ अथाऽङ्गशौचं स्नानेन, प्रचक्रे चक्रवर्त्यपि । रागद्वेषजयेनेव, मनःशौचं मुनीश्वरः ।। १६३ ॥ भरतेशः कृतप्रायश्चित्तकौतुकमङ्गलः । पर्यधाद् वस्त्रनेपथ्यान्युज्ज्वलानि स्ववृत्तवत् ।। १६४ ।। मूर्ध्नि श्वेतातपत्रेण, चामराभ्यां च पार्श्वयोः । भ्राजमानः स शुभ्राभ्यां, ययौ वेश्मान्तवेदिकाम् । १६५ ।। पूर्वाचलमिवाऽऽदित्यस्तामारुह्य महीपतिः । नभोमध्यमिवोदग्रमारुरोह महागजम् ।। १६६ ॥ भेरीशङ्खानकप्रायवर्यतूर्यमहारवैः । अश्रुवानोऽम्बराभोगं, यन्त्रधाराजलैरिव ॥ १६७ ।। दिशो गजैर्निरुन्धानोऽम्बुदैरिव मदाम्बुभिः । तुरङ्गैश्छादयन्नुर्वी, तरङ्गैरिव सागरः ।। १६८ ॥ १ महानदीपूरपयांसीव । २ उत्सुका अभवन् । ३ तीक्ष्णः ।
श्रीऋषभ| स्तुतिः ।
।।३०९ ॥