________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३०८॥
श्रीऋषभ
अपि सर्वात्मना ज्ञातुमशक्या योगिपुङ्गवैः । स्तुत्या क्व ते गुणाः ? स्तोता, क्वाऽहं नित्यप्रमद्वरः ।।१४१ ॥ तथापि नाथ ! स्तोष्यामि, यथाशक्ति भवद्गुणान् । दीर्घध्वनि व्रजन खलः, कि केनाऽपि निवार्यते ? ।।१४२ ।। भवदुःखातपक्लेशविवशानां शरीरिणाम् । छत्रच्छायायमानाङ्ग्रिच्छाय ! त्रायस्व नः प्रभो ! ।।१४३ ।। कृतार्थस्त्वं स्वयं नाथ !, कृते लोकस्य केवलम् । एवं विहरसे स्वार्थायोद्याति किमहस्करः ? || १४४ ।। मध्यन्दिनादित्य इव, त्वयि प्रतपति प्रभो ! । सङ्घचत्यभितः कर्म, देहच्छायेव देहिनाम् ।। १४५ ॥ तिर्यञ्चोऽपि हि धन्यास्ते, ये त्वां पश्यन्ति सर्वदा । भवद्दर्शनवन्ध्यास्तु, त्रिविष्टपसदोऽपि न ।। १४६ ।। प्रकृष्टेभ्यः प्रकृष्टास्ते, भविकास्त्रिजगत्पते ! । एको हृदयचैत्येषु, येषां त्वमधिदेवता ।। १४७ ॥ एकं याचे भवत्पादान्, ग्रामाद् ग्रामं पुरात् पुरम् । विहरन्नपि मा जातु, विहासीहृदयं मम ।। १४८ ॥ प्रभुं स्तुत्वेति पञ्चाङ्गस्पृष्टभूमिः प्रणम्य च । पूर्वोत्तरस्यां दिश्यासाञ्चक्रे दिविषदां पतिः ।। १४९ ॥ तथा च समवसृतं, स्वामिनं शैलपालकाः । शशंसुश्चक्रिणे तत्र, तदर्थं स्थापिता हि ते ॥ १५० ॥ स वदान्यो ददौ स्वर्णकोटादश सार्द्धिकाः । तेभ्यो जिनं ज्ञपयद्भ्यः, सर्व स्तोकं हि तादृशाम् ।। १५१ ॥ सिंहासनादथोत्थायाऽभिमुखं भगवद्दिशः । गत्वा पदानि सप्ताऽष्टन्यनमद् विनयात् प्रभुम् ।। १५२ ।। स्थित्वा सिंहासने भूयो, भूय आजूहवन्नृपान् । स्वामिपादान्तयानाय, पुरन्दर इवाऽमरान् ।। १५३ ॥ आययुः सर्वतो भूपाः, क्षणेन भरताज्ञया । वेलयेव पयोराशेरुच्चैर्वीचिपरम्पराः ।। १५४ ॥ १ पादविकलः । २ सूर्यः ।३ देवाः । ४ श्रेष्ठः । * सप्ताऽध्यै, ननामाऽन्वक्षवत् प्रभुम् । + भूयः सैन्यानाजूहवत् । सेनाः
स्तुतिः ।
।। ३०८ ।।