________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३०७ ॥
मृज्यमानं मुहुश्चैत्यशाखिशाखान्तपल्लवैः । तस्योपरिधत् पीठस्य, ते रत्नच्छन्दकं व्यधुः ॥ १२६ ॥ तस्यान्तः प्राक् सामिपीठं, रत्नसिंहासनं व्यधुः । कर्णिकामिव विकचाम्भोजकोशस्य मध्यतः ॥१२७ ॥ छन्दकस्योपरि च्छत्रत्रितयं ते विचक्रिरे । आवर्तितं त्रिपथगास्रोतस्त्रयमिवाऽभितः ।। १२८ ॥ कुतोऽपि हि समाहृत्य, पूर्वसिद्धमिव क्षणात् । इत्थं समवसरणमस्थाप्यत सुरासुरैः ॥ १२९ ।। ततश्च पूर्वद्वारेण, मोक्षद्वारं जगत्पतिः । भव्यानां हृदयमिव, प्रविवेश तदुच्चकैः ।। १३० ॥ तत्कालं श्रवणोत्तंसीभवच्छाखान्तपल्लवम् । ततः प्रदक्षिणीचक्रे, तमशोकतरुं प्रभुः ॥ १३१ ॥ नमस्तीर्थायेति वदन्, पूर्वाशाभिमुखोऽथ तत् । राजहंस इवाऽम्भोज, भेजे सिंहासनं विभुः ।। १३२ ।। दिक्ष्वन्यास्वपि तिसृषु, रूपाणि परमेष्ठिनः । रत्नसिंहासनस्थानि, विचक्रुर्व्यन्तरामराः ॥१३३ ।। पूर्वद्वाराऽविशन् साधु-साध्वी-वैमानिकस्त्रियः । प्रदक्षिणीकृत्य नेमुर्जिनं तीर्थं च भक्तितः ।। १३४ ।। प्राकारे प्रथमे तत्र, धर्माराममहाद्रुमाः । पूर्वदक्षिणीदिश्यासाञ्चक्रिरे सर्वसाधवः ॥१३५ ॥ तेषां च पृष्ठतस्तस्थुरूद्धर्वा वैमानिकस्त्रियः । तासां च पृष्ठतस्तस्थुस्तथैव व्रतिनीगणाः ॥१३६ ॥ प्रविश्य दक्षिणद्वारा, प्राग्विधानेन नैऋते । तस्थुवनेशज्योतिर्व्यन्तराणां स्त्रियः क्रमात् ।। १३७ ।। प्रविश्य पश्चिमद्वारा, तद्वन्नत्वाऽवतस्थिरे । मरुद्दिशि भवनेशज्योतिष्कव्यन्तराः क्रमात् ।। १३८ ॥ तदा च नाथं समवसृतं विज्ञाय वासवः । छादयन् द्यां विमानौघैस्त सत्वरमाययौ ॥ १३९ ॥ प्रविश्योदीच्यद्वारेण, स्वामिनस्त्रिः प्रदक्षिणाम् । कृत्वा नत्वा च सुत्रामा, भक्तिमानेवमस्तवीत् ।। १४० ॥ १ गङ्गाप्रवाहत्रयम् । २ प्रथमनिष्पन्नमिव । ३ पूर्वदिशाभिमुखः । ४ धर्मोद्यानमहावृक्षाः । ५ साध्व्यः । ६ इन्द्रः ।
समवसरणम् ।
||३०७॥