________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामि-- चरितम् ।
॥३०६ ॥
रेजुर्ध्वजपटास्तेषु, समीरणतरङ्गिताः । आकाशगङ्गातरलतरङ्गभ्रान्तिदायिनः ।। ११२ ।। अधोऽधस्तोरणान्यासन्, मौक्तिकस्वस्तिकादयः । जगतो मङ्गलमिहेत्यालेख्यलिपिविभ्रमाः ।।११३ ॥ तत्रोा रचिते पीठे, वप्रं वैमानिकाः सुराः । रत्नाकरश्रीसर्वस्वमिव रत्नमयं व्यधुः ॥११४ ।। तैश्चक्रे तत्र माणिक्यकपिशीर्षपरम्परा । चन्द्रचण्डांशुमालेव, मानुषोत्तरसीमनि ॥ ११५ ॥ वलयीकृत्य हेमाद्रिशृङ्गमेकमिवाऽमलम् । प्राकारं मध्यमं ज्योतिष्पतयः काञ्चनं व्यधुः ॥११६ ॥ चक्रिरे कपिशीर्षाणि, तत्र रत्नमयानि ते । सचित्राणीव सुचिरं, प्रेक्षकप्रतिबिम्बितैः ।। ११७ ॥ विदधुर्भवनाधीशा, रौप्यं वप्रमधस्तनम् । कुण्डलीभूतशेषाहिभोगभ्रमविधायिनम् ॥ ११८ ॥ चक्रुस्ते काञ्चनीं तत्र, कपिशीर्षपरम्पराम् । क्षीरोदेतीरनीरस्थसुपर्णश्रेणिविभ्रमाम् ।। ११९ ।। वप्रे वप्रे च चत्वारि, चक्रिरे गोपुराणि तैः । तदा विनीतानगरीप्राकारे गुह्यकैरिव ॥ १२० ॥ गोपुरेषु च माणिक्यतोरणान्यक्रियन्त तैः । प्रसारिभिः शतगुणानीव स्वैरेव रश्मिभिः ॥ १२१ ॥ द्वारे द्वारे न्यधीयन्त, व्यन्तरैधूपचारकाः । चक्षुरक्षाञ्जनलेखासदृग्धूपोर्मिधारिणः ॥ १२२ ॥ मध्यवप्रान्तरे पूर्वोदीच्यां विश्रान्तये विभोः । देवच्छन्दं व्यधुर्देवा, देवालयमिवौकसि ।।१२३ ।। त्रिकोशमानश्चैत्यगुर्विचक्रे व्यन्तरामरैः । अन्तःसमवसरणं, पोतान्तरिव फॅपकः ।। १२४ ।। पीठं रत्नमयं चक्रुस्तेऽथ चैत्यतरोरधः । तं मूलतः पल्लवितमिव कुर्वाणमंशुभिः ।। १२५ ॥ १ मण्डलीकृत्य । २ क्षीरसमुद्रतटजलस्थगरुडपतिविभ्रमाम् । ३ यक्षैः । ४ किरणैः । + खायितधू । ५ प्रवहणान्तः कूपस्तम्भ इव । ६ चैत्यतरुम् ।
समवसरणम् ।
॥३०६ ॥