________________
त्रिषष्टिशलाका
पुरुषचरिते
।। ३०५ ।।
कौसुम्भवाससमिव, रक्ताशोकवनैः क्वचित् । तमालतालहिन्तालैर्नीलाम्बरमिव क्वचित् ॥ ९९ ॥ पीतांशुकमिव क्वापि, किंशुकैः कुसुमाञ्चितैः । श्वेतवस्त्रमिव क्वाऽपि, मालतीमल्लिकावनैः ॥ १०० ॥ अष्टयोजनमानेनोच्छ्रायेणाऽभ्रंलिहं ततः । गिरिं गिरिगरिष्ठस्तमारुरोह जगद्गुरुः ।। १०१ ।। ॥ चतुर्विंशत्या कुलकम् ॥ मरुत्कीर्णैर्द्वकुसुमैस्तथा निर्झरवारिभिः । त्रिजगत्स्वामिनः सोऽद्रिरेर्घपाद्ये व्यधादिव ।। १०२ ।। अष्टापदगिरिः सोऽथ, स्वामिपादैः पवित्रितः । न हीनमान्यभून्मेरोस्तज्जन्मस्नानपावितात् ।। १०३ ।। प्रहृष्टपरपुष्ौदिकूजितव्याजतो मुहुः । जगाविव जगन्नाथगुणानष्टद्यपदाचलः ।। १०४ ॥ क्षेत्रे योजनमात्रेऽथ, तृणकाष्ठादिकं क्षणात् । वर्द्धनीजीविन इव, जहुर्वायुकुमारकाः ।। १०५ ।। विकृत्य सद्योऽप्यभ्राणि, पानीयमहिषानिव । गन्धाम्बुभिस्तां सिषिचुः, क्षितिं मेघकुमारकाः ॥ १०६ ॥ स्वर्णरत्नशिलाभिश्च विशालाभिर्दिवौकसः । सममादर्शतलवद्, बबन्धुर्धरणीतलम् ।। १०७ ।। पञ्चवर्णाः शक्रधनुःखण्डोत्करविडम्बिनीः । जानुदध्नीः सुमनसो ववृषुर्व्यन्तरामराः ।। १०८ ।। व्यन्तरास्तत्र कॉलिन्दीवीचिश्रीतस्करान् व्यधुः । द्रुदलैस्तोरणानाद्रैः, ककुप्सु चतसृष्वपि ॥ १०९ ॥ तोरणान्यभितः स्तम्भेष्वराजन्मकराकृतिः । सिन्धूभयतटस्थास्नुमकरश्रीविडम्बिनी ।। ११० ।। तेषु श्वेतातपत्राणि चत्वारि च चकाशिरे । दिग्देवीनां चतसृणां राजता इव दर्पणाः ।। १११ ॥
१ गगनपर्यन्तोन्नतम् । २ अर्घ्यपाद्योदके । ३ प्रहर्षितकोकिलादिकूजितमिषात् । ४ मार्जनीजीविनः । ५ जानुप्रमाणाः । ६ पुष्पाणि । ७ यमुना ।
प्रथमं पर्व
षष्ठः सर्गः
श्रीऋषभ
स्वामि
चरितम् ।
सम
वसरणम् ।
॥ ३०५ ॥