________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३०४ ।।
अष्टापदः ।
शृङ्गाग्रभागविश्रान्तविद्याधरमृगीदृशाम् । वैताठ्यक्षुद्रहिमवद्विस्मारणभवान्तरम् ।। ८४ ।। आदर्शमिव रोदस्योर्दिशां हासमिवाऽसमम् । ग्रहनक्षत्रनिर्माणमृत्स्नास्थलमिवाऽक्षयम् ।। ८५ ।। मध्यभागसमासीनक्रीडाश्रान्तकुरङ्गकैः । शिखरैर्दर्शितानेकमृगलाञ्छनविभ्रमम् ।। ८६ ।। आमुक्तामलसंव्यानमिव निर्झरपतिभिः । उत्पताकमिवोदञ्चदर्ककान्तोपलांशुभिः ।। ८७ ॥ तुङ्गनिर्मलशृङ्गाग्रसंक्रान्तेन विवस्वेता । मुग्धसिद्धपुरन्ध्रीणां, दत्तोदयगिरिभ्रमम् ।। ८८ ॥ अत्यापत्रबहलैः, सन्ततच्छायमै िपैः । मयूरपत्ररचितैरातपरिवोरुभिः ।। ८९ ।। खेचरीभिबल्यमानेष्वेणपोतेषु कौतुकात् । उत्प्रसवमृगीक्षीरसिच्यमानलतावनम् ।। ९०॥ कदलीपत्रसंव्यानशबरीलास्यमीक्षितुम् । श्रेणीकृताक्षिपत्राभिः, सुरस्त्रीभिरधिष्ठितम् ।।९१ ॥ रतश्रान्तोरगीपीतदरिद्रितवनानिलम् । वनानिलनटक्रीडाप्रनर्तितलतावनम् ।। ९२ ।। किन्नरस्त्रीरतारम्भमन्दिरीभूतकन्दरम् । अप्सरोमज्जनभरोत्तरङ्गितसरोजलम् ।।९३ ॥ शाराद्यूतपरैः क्वाऽपि, पानगोष्ठीरतैः क्वचित् । क्वचनाऽऽबद्धपणितैर्यक्षस्तुमुलितोदरम् ।। ९४ ॥ क्वचिच्छबरनारीभिः, किन्नरीभिः क्वचित् पुनः । क्वचिद् विद्याधरस्त्रीभिः, क्रीडाप्रक्रान्तगीतिकम् ॥९५ ॥ पक्वद्राक्षाफलोन्मत्तशुकैः क्वाऽपि कृतारवम् । क्वाऽपि चूताङ्कुरोन्मत्तपिकोद्ग्राहितपञ्चमम् ।। ९६ ॥ क्वचिन्नवबिसास्वादमत्तहंसस्वरोद्धरम् । सरित्तटोन्मदक्रौञ्चक्रेङ्कारमुखरं क्वचित् ।। ९७ ॥ क्वाऽप्यासन्नघनोन्माद्यत्केकिकेकारवाकुलम् । क्वचित् सरःपरिसरत्सारसस्वरसुन्दरम् ।।९८ ॥ १ धावाभूम्योः । २ सूर्येण । ३ वृक्षैः । ४ मृगशिशुषु । ५ पाशफलकद्यूतपरैः । ६ कोलाहलीकृतमध्यम् ।
॥३०४ ॥