________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् ।
॥३०३ ॥
जघन्यतः कोटिसङ्ख्य, राजमानः सुरासुरैः । यातायातपरैर्वेलातरङ्गैरिव सागरः ।।७१ ॥ भक्तिप्रभाववशतः, सप्रमेण दिवाऽपि हि । इन्दुनेव नभःस्थेनाऽऽतपत्रेण विराजितः ।। ७२ ।। इन्दोर्मरीचिसर्वस्वकोशैरिव पृथक्कृतैः । गङ्गातरङ्गधवलैर्वीज्यमानश्च चामरैः ॥७३ ।। तपसा दीप्यमानैश्च, सौम्यैश्च श्रमणोत्तमैः । लक्षशः परिकरितः, उडुनाथ इवोडुभिः ।।७४ ॥ प्रतिग्रामं प्रतिपुरं, भव्यजन्तून् प्रबोधयन् । प्रतिसिन्धु प्रतिसरः, पङ्कजानीव भास्करः ॥७५ ॥ ग्रामाकरपुरद्रोणमुखकर्बटपत्तनैः । मडम्बाश्रमखेटाद्यैश्चापूर्णा विहरन् महीम् ।।७६ ॥ विश्वोपकारप्रवणो, भगवानृषभध्वजः । अपरेधुः क्रमात् प्रापदष्टपदमहाचलम् ।। ७७ ॥
॥पञ्चविंशत्या कुलकम् ।। शारदानामिवाऽभ्राणां, राशिमेकत्र कल्पितम् । संस्त्यानीभूतदुग्धाब्धिवेलाकूटमिवाऽऽहृतम् ।। ७८ ।। जन्माभिषेकविकृतपुरन्दरककुद्यताम् । एकं ककुद्मन्तमिवोत्तुङ्गशृङ्गमिव स्थितम् ॥७९ ।। नन्दीश्वरमहाद्वीपवर्तिपुष्करिणीसदाम् । मध्याद् दधिमुखाद्रीणामिवैकतममागतम् ॥ ८०॥ जम्बूद्वीपारविन्दस्य, बिसखण्डमिवोद्धृतम् । उद्भटं मुकुटमिव, श्वेतरत्नमयं भुवः ।। ८१ ।। नैर्मल्याद् भासुरत्वाच्च, नित्यमेव धुसद्गणैः । स्नप्यमानमिवाऽम्भोभिर्मुज्यमानमिवांशुकैः ।। ८२ ।। स्फटिकोपलकूलेषु, निर्मलेष्वङ्गनाजनैः । उपलक्ष्यसरिद्वारिं, वातोद्भूताब्जरेणुना ।। ८३ ॥ १ साघूत्तमैः ।२ चन्द्रः । ३ नक्षत्रैः । ४ घनीभूतक्षीरसमुद्रवेलाकूटम् । ५ वृषभम् । ६ नालखण्डम् ।७ देवसङ्घः । ८ उपलक्षणीयनदीजलम् ।
ऋषभजिनातिशयाः ।
।।३०३ ।।