Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 367
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् । ॥३१८ ॥ तीर्थकृतः । द्वादशपूर्वाङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवलक्षाणि चाऽन्तरम् ।। २८६ ।। ___ कौशाम्ब्यां धर-सुसीमासूनुः पद्मप्रभोऽरुणः । त्रिंशत्पूर्वलक्षायुष्कः, सार्द्धधन्वशतद्वयः ।। २८७ ॥ षोडशपूर्वाङ्गन्यूनो, पूर्वलक्षोऽस्य तु व्रते । अब्धिकोटिसहस्राणां, नवतिः पुनरन्तरम् ॥२८८ ॥ __वाराणस्यां तु प्रतिष्ठ-पृथ्वीसूनुः सुवर्णरुक् । सुपार्थो विंशतिपूर्वलक्षायुर्विधनुःशतः ।। २८९ ।। विंशत्यङ्गविहीनोऽस्य, पूर्वलक्षो व्रते पुनः । सागरोपमकोटीना, सहस्राणि नवाऽन्तरम् ।। २९० ॥ - चन्द्रानने महासेन-लक्ष्मणाभूः शशिप्रभः । दशपूर्वलक्षायुष्कः, शुभ्रः सार्धधनुःशतः ।। २९१ ॥ चतुर्विंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीना, शतानि नव चाऽन्तरम् ।। २९२ ॥ ___ काकन्द्यां सुग्रीव-रामातनयः सुविधिः सितः । पूर्वलक्षद्वयायुष्क, एकधन्वशतोच्छ्रयः ।।२९३ ॥ अथविंशत्यङ्गहीना, पूर्वलक्षाऽस्य तु व्रते । सागरोपमकोटीनां, नवतिः पुनरन्तरम् ।। २९४ ।। शीतलो भद्रिलपुरे, नन्दा-दृढरथात्मजः । स्वर्णाभः पूर्वलक्षायुर्धनुर्नवतिमुच्छ्रितः ॥ २९५ ॥ अमुष्य तु व्रते पूर्वसहस्राः पञ्चविंशतिः । अन्तरं तु सरिन्नाथोपमानां कोटयो नव ।।२९६ ।। सिंहपुरे विष्णुराज-विष्ण्वोः सूनुः सुवर्णरुक् । श्रेयांसस्तु जिनोऽशीतिशरासनसमुन्नतिः ॥ २९७ ।। वर्षाणां चतुरशीत्या, लक्षः प्रमितजीवितः । अमुष्य तु व्रते वर्षलक्षाणामेकविंशतिः ॥२९८ ॥ षड्विशत्याऽब्दसहस्रः, षट्षष्ट्या वर्षलक्षकैः । तथाऽर्णवशतेनोनाऽर्णवकोटिर्जिनान्तरम् ।। २९९ ।। चम्पापुर्यां वासुपूज्यो, वसुपूज्य-जयात्मजः । द्वासप्तत्यब्दलक्षायुर्धनुःसप्ततिमुन्नतः ।। ३०० ।। रक्तोऽस्य चतुःपञ्चाशद्वर्षलक्षाणि तु व्रतम् । तथा सागरोपमाणां, चतुःपञ्चाशदन्तरम् ॥३०१ ।। ॥३१८ ॥

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399