Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 360
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ ३११ ॥ इत्थं प्रथमवप्रान्तस्तस्थौ सङ्घश्चतुर्विधः । चतुर्विधो धर्म इवाऽनवद्ये स्वामिशासने ।। १८३ ॥ प्राकारे च द्वितीयस्मिंस्तिर्यञ्चस्तस्थुरुन्मुदः । विरोधिनोऽपि हि मिथः, सस्नेहाः सोदरा इव ।। १८४ ।। तार्तीयीके पुनर्वप्रे, नृपादीनामुपेयुषाम् । देशनाकर्णनोत्कर्णास्तस्थुर्यानेपरम्पराः ।। १८५ ।। सर्वभाषानुगामिन्या, मेघनिर्घोषधीरया । गिरा त्रिभुवनवामी, विदधे धर्मदेशनाम् ।। १८६ | आसक्तभारनिर्मुक्ता, इवाऽऽप्तेष्टपदा इव । कृताभिषेककल्याणा, इव ध्यानस्थिता इव ।। १८७ ॥ प्राप्ता इवाऽहमिन्द्रत्वं परं ब्रह्म गता इव । शृण्वन्तो देशनां हर्षात्, तस्थुस्तिर्यग्नरामराः ।। १८८ ॥ ॥ युग्मम् ॥ देशनान्ते च भरतो, भ्रातॄनात्तमहाव्रतान् । निरीक्ष्य समनस्तापो, मनस्येवमचिन्तयत् ॥ १८९ ॥ बन्धूनां गृह्णता राज्यमेतेषां किं कृतं मया ? । अनारतमतृप्तेन, भस्मकामयिनेव हा ! ।। १९० ॥ अन्येभ्योऽपि ददानोऽस्मि, लक्ष्मीं भोगफलामिमाम् । तच्च मे भस्मनि हुतमिव मूढस्य निष्फलम् ।। १९१ ।। काकोऽप्याहूय काकेभ्यो, दत्त्वाऽन्नाद्युपजीवति । ततोऽपि हीनस्तदहं भोगान् भुञ्जे विना ह्यमून् ।। १९२ ।। दीयमानान् यदि पुनर्भोगान् भूयोऽपि मच्छुभैः । आददीरन्नमी भिक्षां, मासक्षपणिका इव ।। १९३ ॥ एवमालोच्य भरतः, पादमूले जगद्गुरोः । भ्रातॄन् निमन्त्रयामास, भोगाय रचिताञ्जलिः ।। १९४।। प्रभुरप्यादिदेशैवमृज्वाशय ! विशाम्पते ! । भ्रातरस्ते महासत्त्वाः, प्रतिज्ञातमहाव्रताः ।। १९५ । संसारासारतां ज्ञात्वा, परितस्त्यक्तपूर्विणः । न खलु प्रतिगृह्णन्ति, भोगान् भूयोऽपि वान्तवत् ॥। १९६ ।। ॥ युग्मम् ॥ १ वाहनपरम्पराः । २ मनःसन्तापसहितः । ३ भस्मकरोगिणेव । ४ मासोपवासिनो मुनयः । प्रथमं पर्व षष्ठः सर्गः श्रीऋषभ स्वामि चरितम् । श्रीऋषभ स्वामि देशनाः । ।। ३११ ।।

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399