Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 363
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामि|चरितम् । ।।३१४ ।। भरतोऽथ समाहूय, श्रावकानभ्यधादिदम् । गृहे मदीये भोक्तव्यं, युष्माभिः प्रतिवासरम् ॥ २२७ ।। कृष्यादि न विधातव्यं, किन्तु स्वाध्यायतत्परैः । अपूर्वज्ञानग्रहणं, कुर्वाणैः स्थेयमन्वहम् ।। २२८ ।। भुक्त्वा च मेऽन्तिकगतैः, पठनीयमिदं सदा । जितो भवान् वर्धते भीस्तस्मान्मा हन मा हन ।। २२९ ॥ प्रतिपद्य तथा ते तु, भुञ्जते स्म तदोकसि । तथा च तद् वचः पेठुः, स्वाध्यायमिव तत्पराः ।। २३० ।। रतिमनो देव इव, नृदेवोऽपि प्रमद्वरः । तच्छब्दाकर्णनादेव, किञ्चिदेवं व्यचिन्तयत् ।। २३१ ।। जितोऽस्मि केन ? हुं ज्ञातं, कषायैर्वर्धते च भीः ।कुतो मे तेभ्य एवेति, मा हन्यां प्राणिनस्ततः ।। २३२ ।। एवं च स्मारयन्त्येते, नित्यमेव विवेकिनः । अहो ! मम प्रमादित्वमहो ! विषयलुब्धता ।। २३३ ।। औदासीन्यमहो ! धर्मेऽप्यहो ! संसाररागिता । अहो ! महापुरुषतोचिताचारविपर्ययः ।। २३४ ।। अनया चिन्तया धर्मध्यानं प्रावर्त्तत क्षणम् । गङ्गाप्रवाहः क्षाराब्धाविव तस्मिन् प्रमादिनि ।। २३५ ।। भूयोऽपि भूपः शब्दादिष्विन्द्रियार्थेष्वसज्यत । कर्म भोगफलं कोऽपि, नाऽन्यथा कर्तुमीश्वरः ।। २३६ ।। सूर्याध्यक्षैरथाऽन्येधुरेवं व्यज्ञपि भूपतिः । श्रावकोऽश्रावको वाऽपि, भूयस्त्वान्नोपलक्ष्यते ।। २३७ ।। आदिशद् भरतः सूदान्, श्राद्धा यूयमपि स्थ यत् । परीक्षापूर्वकं देयमतः प्रभृति भोजनम् ।। २३८ ॥ भवान् ? श्रावकोऽहं, तव्रतानि कति ? शंस नः । तानि न श्रावकाणां स्युः, किन्त्वस्माकं सदाऽपि हि ॥२३९ ॥ अणुव्रतानि पञ्चाऽथ, सप्त शिक्षाव्रतानि च । एवं परीक्षानियूंढास्तैस्तेऽदय॑न्त भूपतेः ।। २४० ॥ ज्ञानदर्शनचारित्रलिङ्गं रेखात्रयं नृपः । वैकक्ष्यमिव काकिण्या, विदधे शुद्धिलक्षणम् ।। २४१ ॥ १ पाचकाधिपतिभिः । २ तिर्यक्कक्षावलम्बी हारभेदः । भरतेन श्रावकेभ्यो भोजनदानम् । SHAHARASHARASIRSASARAS ॥३१४ ॥

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399