Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 361
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः | श्रीऋषभस्वामिचरितम् । ॥३१२ ॥ अवग्रहः । एवं निषिद्धो भोगेषु, स्वामिना भरतेश्वरः । भूयो विचिन्तयामास, सानुतापेन चेतसा ॥ १९७ ।। यदि तावदमी त्यक्तसङ्गा भोगान् न भुञ्जते । तथाऽपि तावदाहारं, भोक्ष्यन्ते प्राणधारणम् ।। १९८ ।। एवं विचिन्त्य शकटशतैः पञ्चभिरुच्चकैः । आनाय्याऽऽहारमनुजान्, न्यमन्त्रयत् स पूर्ववत् ।। १९९ ।। स्वामी भूयोऽप्युवाचैवमन्नादि भरतेश्वरः । आधाकर्माऽऽहृतं जातु, यतीनां न हि कल्पते ।।२०० ।। एवं निराकृतो भूयोऽप्यकृताकारितेन सः । अन्नेनाऽऽमन्त्रयाञ्चक्रे, शोभते सर्वमोर्जवे ।। २०१ ।। राजेन्द्र ! राजपिण्डोऽपि, महर्षीणां न कल्पते । एवं भूयो निराचक्रे, चक्रभृद् धर्मचक्रिणा ।। २०२ ।। स्वामिना प्रतिषिद्धोऽस्मि, सर्वथेति महीयसा । अदूयताऽनुतापेन, राहुणेव निशाकरः ।। २०३ ।। उपलक्ष्य विलक्षत्वं, सहस्राक्षः क्षमापते । पप्रच्छ स्वामिनमिति, कतिधा स्यादवग्रहः ? ।। २०४ ॥ स्वाम्यपि व्याजहारैवं, पञ्चधा स्यादवग्रहः । इन्द्रचक्रिनृपागारिसाधुसम्बन्धिभेदतः ।। २०५ ॥ उत्तरेणोत्तरेणैषां, पूर्वः पूर्वः प्रबाध्यते । विधिः परोक्तो बलवान्, यत् पूर्वोक्तपरोक्तयोः ।। २०६ ।। शक्रोऽप्यूचेऽवग्रहे मे, साधवो विहरन्ति ये । तदमीषां मया देवानुजज्ञेऽवग्रहो निजः ।। २०७ ।। इत्युदित्वा स्वामिपादान, वन्दित्वाऽवस्थिते हरौ । एवं सञ्चिन्तयामास, भूयोऽपि भरतेश्वरः ।। २०८ ॥ एभिर्मदीयं मुनिभिर्यद्यप्यन्नादि नाऽऽदृतम् । अवग्रहानुज्ञयाऽद्य, कृतार्थः स्यां तथाऽप्यहम् ।। २०९ ॥ सम्प्रधार्येति हृदये, हृदयालुर्महीपतिः । शक्रवत् स्वामिपादाग्रेऽन्वज्ञासीत् स्वमवग्रहम् ।।२१०॥ सब्रह्मचारिणमिवेत्यपृच्छद् वासवं च सः । मया कि कार्यममुना, भक्तपानादिनाऽधुना ? || २११ ।। १ पश्चात्तापसहितेन । २ सरलत्वे । ३ तीर्थकरेण । ४ इन्द्रः । ५ इन्द्रे । ॥३१२॥

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399