Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 356
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामिचरितम् । ॥३०७ ॥ मृज्यमानं मुहुश्चैत्यशाखिशाखान्तपल्लवैः । तस्योपरिधत् पीठस्य, ते रत्नच्छन्दकं व्यधुः ॥ १२६ ॥ तस्यान्तः प्राक् सामिपीठं, रत्नसिंहासनं व्यधुः । कर्णिकामिव विकचाम्भोजकोशस्य मध्यतः ॥१२७ ॥ छन्दकस्योपरि च्छत्रत्रितयं ते विचक्रिरे । आवर्तितं त्रिपथगास्रोतस्त्रयमिवाऽभितः ।। १२८ ॥ कुतोऽपि हि समाहृत्य, पूर्वसिद्धमिव क्षणात् । इत्थं समवसरणमस्थाप्यत सुरासुरैः ॥ १२९ ।। ततश्च पूर्वद्वारेण, मोक्षद्वारं जगत्पतिः । भव्यानां हृदयमिव, प्रविवेश तदुच्चकैः ।। १३० ॥ तत्कालं श्रवणोत्तंसीभवच्छाखान्तपल्लवम् । ततः प्रदक्षिणीचक्रे, तमशोकतरुं प्रभुः ॥ १३१ ॥ नमस्तीर्थायेति वदन्, पूर्वाशाभिमुखोऽथ तत् । राजहंस इवाऽम्भोज, भेजे सिंहासनं विभुः ।। १३२ ।। दिक्ष्वन्यास्वपि तिसृषु, रूपाणि परमेष्ठिनः । रत्नसिंहासनस्थानि, विचक्रुर्व्यन्तरामराः ॥१३३ ।। पूर्वद्वाराऽविशन् साधु-साध्वी-वैमानिकस्त्रियः । प्रदक्षिणीकृत्य नेमुर्जिनं तीर्थं च भक्तितः ।। १३४ ।। प्राकारे प्रथमे तत्र, धर्माराममहाद्रुमाः । पूर्वदक्षिणीदिश्यासाञ्चक्रिरे सर्वसाधवः ॥१३५ ॥ तेषां च पृष्ठतस्तस्थुरूद्धर्वा वैमानिकस्त्रियः । तासां च पृष्ठतस्तस्थुस्तथैव व्रतिनीगणाः ॥१३६ ॥ प्रविश्य दक्षिणद्वारा, प्राग्विधानेन नैऋते । तस्थुवनेशज्योतिर्व्यन्तराणां स्त्रियः क्रमात् ।। १३७ ।। प्रविश्य पश्चिमद्वारा, तद्वन्नत्वाऽवतस्थिरे । मरुद्दिशि भवनेशज्योतिष्कव्यन्तराः क्रमात् ।। १३८ ॥ तदा च नाथं समवसृतं विज्ञाय वासवः । छादयन् द्यां विमानौघैस्त सत्वरमाययौ ॥ १३९ ॥ प्रविश्योदीच्यद्वारेण, स्वामिनस्त्रिः प्रदक्षिणाम् । कृत्वा नत्वा च सुत्रामा, भक्तिमानेवमस्तवीत् ।। १४० ॥ १ गङ्गाप्रवाहत्रयम् । २ प्रथमनिष्पन्नमिव । ३ पूर्वदिशाभिमुखः । ४ धर्मोद्यानमहावृक्षाः । ५ साध्व्यः । ६ इन्द्रः । समवसरणम् । ||३०७॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399