Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 354
________________ त्रिषष्टिशलाका पुरुषचरिते ।। ३०५ ।। कौसुम्भवाससमिव, रक्ताशोकवनैः क्वचित् । तमालतालहिन्तालैर्नीलाम्बरमिव क्वचित् ॥ ९९ ॥ पीतांशुकमिव क्वापि, किंशुकैः कुसुमाञ्चितैः । श्वेतवस्त्रमिव क्वाऽपि, मालतीमल्लिकावनैः ॥ १०० ॥ अष्टयोजनमानेनोच्छ्रायेणाऽभ्रंलिहं ततः । गिरिं गिरिगरिष्ठस्तमारुरोह जगद्गुरुः ।। १०१ ।। ॥ चतुर्विंशत्या कुलकम् ॥ मरुत्कीर्णैर्द्वकुसुमैस्तथा निर्झरवारिभिः । त्रिजगत्स्वामिनः सोऽद्रिरेर्घपाद्ये व्यधादिव ।। १०२ ।। अष्टापदगिरिः सोऽथ, स्वामिपादैः पवित्रितः । न हीनमान्यभून्मेरोस्तज्जन्मस्नानपावितात् ।। १०३ ।। प्रहृष्टपरपुष्ौदिकूजितव्याजतो मुहुः । जगाविव जगन्नाथगुणानष्टद्यपदाचलः ।। १०४ ॥ क्षेत्रे योजनमात्रेऽथ, तृणकाष्ठादिकं क्षणात् । वर्द्धनीजीविन इव, जहुर्वायुकुमारकाः ।। १०५ ।। विकृत्य सद्योऽप्यभ्राणि, पानीयमहिषानिव । गन्धाम्बुभिस्तां सिषिचुः, क्षितिं मेघकुमारकाः ॥ १०६ ॥ स्वर्णरत्नशिलाभिश्च विशालाभिर्दिवौकसः । सममादर्शतलवद्, बबन्धुर्धरणीतलम् ।। १०७ ।। पञ्चवर्णाः शक्रधनुःखण्डोत्करविडम्बिनीः । जानुदध्नीः सुमनसो ववृषुर्व्यन्तरामराः ।। १०८ ।। व्यन्तरास्तत्र कॉलिन्दीवीचिश्रीतस्करान् व्यधुः । द्रुदलैस्तोरणानाद्रैः, ककुप्सु चतसृष्वपि ॥ १०९ ॥ तोरणान्यभितः स्तम्भेष्वराजन्मकराकृतिः । सिन्धूभयतटस्थास्नुमकरश्रीविडम्बिनी ।। ११० ।। तेषु श्वेतातपत्राणि चत्वारि च चकाशिरे । दिग्देवीनां चतसृणां राजता इव दर्पणाः ।। १११ ॥ १ गगनपर्यन्तोन्नतम् । २ अर्घ्यपाद्योदके । ३ प्रहर्षितकोकिलादिकूजितमिषात् । ४ मार्जनीजीविनः । ५ जानुप्रमाणाः । ६ पुष्पाणि । ७ यमुना । प्रथमं पर्व षष्ठः सर्गः श्रीऋषभ स्वामि चरितम् । सम वसरणम् । ॥ ३०५ ॥

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399