Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 317
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् । ॥२६८॥ स्वामिन्नृषभनाथेति, जप्यमाना तवाऽभिधा । आलम्बते सर्वसिद्धिसमाकर्षणमन्त्रताम् ।।३७८ ।। न वज्रमपि भेदाय, न शूलमपि हि च्छिदे । तेषां शरीरिणां नाथ !, येऽधित्वद्भक्तिवर्मिताः ।। ३७९ ।। भगवन्तमिति स्तुत्वा, नत्वा च पुलकाञ्चितः । निरगाद् देवतागारान्नरेश्वरशिरोमणिः ।। ३८० ॥ जग्राह वज्रसन्नाह, हेममाणिक्यमण्डितम् । विजयश्रीविवाहाय, स कञ्चुकमिवोच्चकैः ।। ३८१ ।। शुशुभे वर्मणा तेन, भासुरेण नरेश्वरः । घनविद्रुमसंहत्याऽधिपतिर्यादसामिव ।। ३८२ ।। शिरस्त्राणं च शिरसि, न्यधत्त धरणीधवः । शैलशृङ्गनिविष्यभ्रमण्डलश्रीविडम्बकम् ।। ३८३ ।। पृष्ठेऽबध्नाच्च तूणीरौ, लोहनाराचपूरितौ । महाफणिगणाकीर्णपातालविवरोपमौ ।। ३८४ ॥ युगान्तसमयोदस्तयमदण्डसहोदरम् । कोदण्डं वामदोर्दण्डे, धारयामास भूपतिः ।। ३८५ ।। आशास्यमानः स्वस्तीति, सौवस्तिकवरैः पुरः । जीव जीवेत्युच्यमानः, स्वगोत्रजरतीजनैः ।। ३८६ ।। नन्द नन्देत्युच्यमानो, जरदाप्तजनैः पुनः । चिरं जय जयेत्युच्चैर्गद्यमानश्च बन्दिभिः ॥ ३८७ ।। मेरुशृङ्गमिव स्वारोट, महेभं स महाभुजः । आरुरोहाऽऽरोहकेण, दत्तहस्तावलम्बनः ।।३८८॥ ॥त्रिभिर्विशेषकम् ।। इतस्तदानीमेव श्रीभरतेशोऽपि पुण्यधीः । जगाम देवतागारं, कोशागारं शुभश्रियः ।। ३८९ ।। प्रतिमामादिनाथस्य, स्नपयामास तत्र सः । दिग्जयानीतपद्मादितीर्थतोयैर्महामनाः ।। ३९०॥ ममार्ज राजशार्दूलो, देवदूष्येण वाससा । प्रतिमा तामप्रतिमां, शिल्पिवर्यो मणीनिव ? || ३९१ ॥ १ वज्रकवचम् । २ विपुलप्रवालसमूहेन । ३ यादसा अधिपतिः समुद्रः । ४ पुरोहितैः । ५ इन्द्रः । * शिवश्रि भरतबाहुबलियुद्धम् । ।। २६८ ॥

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399