Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 334
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् । ।।२८५ ॥ क्षणादधः क्षणादूल, कदाचित् कश्चिदप्यभूत् । नियुद्धविज्ञानवशात्, प्राणी कर्मवशादिव ।। ६२२ ॥ उपर्यसावधोऽसावित्यायेतां जनैर्न तौ । जलान्तर्मत्स्यवद् वेगान्मुहुर्विपरिवर्तिनौ ।। ६२३ ।। चक्रतुर्बन्धविज्ञानं, महाही इव तौ मिथः । निरासतुश्च सद्योऽपि, चपलौ प्लवंगाविव ।। ६२४ ।। मुहुर्महीलुठनतस्तावुभौ धूलिधूसरौ । बभासाते प्राप्तधूलीभदौ मदकलाविव ।। ६२५ ।। असहिष्णुस्तयोर्भार, शैलयोरिव सर्पतोः । पादनिर्धातनिर्घोषादारराटेव मेदिनी ।। ६२६ ॥ अथ बाहुबलिः क्रुद्धः, करेणैकेन चक्रिणम् । शरभः कुञ्जरमिवोदग्रहीदुग्रविक्रमः ।। ६२७ ॥ व्योमन्युल्लालयामास, स तं रुपमिव द्विपः । अहो ! निरवधिः सर्गो, बलिनो बलिनामपि ।। ६२८ ॥ चापादिषुरिवोन्मुक्तः, पाषाण इव यन्त्रतः । तारापथपथे दूर, जगाम भरतेश्वरः ।। ६२९ ।। भरतेशादापततः, शक्रमुक्तात् पवेरिव । पलायाञ्चक्रिरे सर्वे, खेचराः समरेक्षिणः ।।६३० ।। हाहारवो महान् जज्ञे, सेनयोरुभयोरपि । कस्य दुःखाकरो न स्यान्महतां ह्यापदागमः ? ॥६३१ ।। धिग् मे बलमिदं बाहोर्धिग धिग्रामसिकं च माम् । एतत् कर्मापक्षकांश्च, धिग् राज्यद्वयमन्त्रिणः ।। ६३२ ॥ किं वा विगर्हितैरेभिर्यावदद्याऽपि मेऽग्रजः । पतित्वा मेदिनीपृष्ठे, कणशो न विशीर्यते ॥६३३ ।। तावत् पतन्तं गगनात्, प्रतीच्छामीति चिन्तयन् । तल्पकल्पौ भुजौ तस्याऽधो दधौ बाहुबल्यपि ।। ६३४ ॥ ॥त्रिभिर्विशेषकम् ।। ऊर्ध्वबाहुव्रतीवोर्ध्वबाहुर्बाहुबलिः क्षणम् । तस्थौ दिनकरालोकव्रतीव च तदोन्मुखः ॥६३५ ।। १ वानरौ । २ हस्तिनौ । ३ आचुक्रोश । ४ अष्टापदः । ५ पशुम् । ६ गगनमार्गे । ७ वजात् । ८ साहसिकम् । ९ शय्यातुल्यौ । भरतबाहुबलि युद्धम् । ।।२८५ ।।

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399