Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 345
________________ त्रिषष्टिशलाकापुरुषचरिते प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् । ॥२९६ ॥ पादपर्यन्तवल्मीकविनिर्यातैर्महोरगैः । पादयोर्वेष्टयाञ्चक्रे, स पादकटकैरिव ।। ७७७ ।। इत्थं स्थितस्य ध्यानेन, तस्यैको वत्सरो ययौ । विनाऽऽहारं विहरतो, वृषभस्वामिनो यथा ।। ७७८ ॥ पूर्णे तु वत्सरे विश्ववत्सलो वृषभध्वजः । आहूय भगवान् ब्राह्मीसुन्दर्यावेवमादिशत् ।। ७७९ ॥ स इदानीं बाहुबलिः, क्षीणप्रचुरकर्मकः । शुक्लचतुर्दशीरात्रिरिव प्रायेण निस्तमाः ।।७८० ॥ मानात् स मोहनीयांशाज्ज्ञानं नाऽऽप्नोति केवलम् । तिरोहितः काण्डपटेनाऽप्यर्थो न हि दृश्यते ॥७८१ ॥ युवयोर्वचसा मानं, सद्यस्त्यक्ष्यति सोऽद्य तत् । योतं तस्योपदेशाय, समयः खलु वर्त्तते ।। ७८२ ।। तामाज्ञां शिरसाऽऽदाय, नत्वा च चरणौ प्रभोः । प्रति बाहुबलिं ब्राह्मीसुन्दयौँ चेलतुस्ततः ॥७८३ ॥ ज्ञात्वाऽपि तन्मानमुपेक्षाञ्चक्रे वत्सरं प्रभुः । अगूढलक्ष्या अर्हन्तः, समये ह्युपदेशकाः ।। ७८४ ॥ ते आर्ये जग्मतुस्तत्र, देशे वल्लीतिरोहितम् । रत्नं रजश्छन्नमिवाऽलक्षयेतां न तं मुनिम् ।। ७८५ ।। मुहुरन्वेषयन्तीभ्यां, ताभ्यामथ तथास्थितः । उपालक्षि कथञ्चित् स, वृक्षेभ्यो ह्यविशेषभाक् ।। ७८६ ॥ निपुणं लक्षयित्वा तं, कृत्वा त्रिश्च प्रदक्षिणाम् । महामुनि बाहुबलिं, ते वन्दित्वैवमूचतुः ।। ७८७ ॥ आज्ञापयति तातस्त्वां, ज्येष्ठार्य ! भगवानिदम् । हस्तिस्कन्धाधिरुढानामुत्पद्येत न केवलम् ॥७८८ ॥ इत्युदित्वा भगवत्यौ, जग्मतुस्ते यथागतम् । सोऽपि विस्मयमानोऽन्तर्महात्मैवमचिन्तयत् ।। ७८९ ।। त्यक्तसावधयोगस्य, कायोत्सर्गजुषस्ततः । अस्मिस्तरोरिवाऽरण्ये, ममेभारोहणं कुतः ? ॥७९० ॥ इमे भगवतः शिष्ये, भाषेते न मृषा क्वचित् । तत् किमेतदहो ! यद्वा, हुं ज्ञातं हि चिरान्मया ॥७९१ ।। १ पटखण्डेन ।२ गच्छतम् । ३ हस्त्यारोहणम् । C|ब्राह्मी सुन्दरीकृतः प्रतिबोधः । ॥२९६ ॥

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399