Book Title: Trishashti Shakala Purush Charitam Part 1
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 351
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ३०२ ॥ अत्यन्तवृष्ट्यनावृष्टी, अजीर्णातिक्षुधाविव । प्रभावेनाऽगदेनेव, जगतोऽप्यपसारयन् ॥ ५७ ॥ स्वान्येचक्रभवेनाऽन्तः शल्येनेवाऽपगच्छता । सद्यः प्रीतैर्जनपदैः, क्रियमाणागमोत्सवः ॥ ५८ ॥ सर्वसंहारघोराच्च, रक्षन् दुर्भिक्षतो जगत् । रक्षसो मान्त्रिक इव, स्तूयमानो भृशं जनैः ।। ५९ ।। भामण्डलं दधानश्च, जितमार्त्तण्डमण्डलम् । बहिर्भूतमिवाऽनन्तं, ज्योतिरन्तरसम्मितम् ।। ६० ।। चक्रवर्तीव चक्रेण, निःसाधारणतेजसा । प्रसर्पता पुरो व्योम्नि, धर्मचक्रेण राजितः ॥ ६१ ॥ लघुध्वजसहस्रेण, पुरो धर्मध्वजेन च । सर्वकर्मजयस्तम्भेनेव तुङ्गेन शोभितः ॥ ६२ ॥ स्वयं शब्दायमानेन, दिव्यदुन्दुभिना दिवि । क्रियमाणप्रयाणार्हकल्याण इव निर्भरम् ॥ ६३ ॥ नभः स्थितेन स्फटिकरत्नसिंहासनेन च । पादपीठसमेतेन, यशसेवोपशोभितः ॥ ६४ ॥ सुरैः सञ्चार्यमाणेषु, सौवर्णेष्वम्बुजन्मसु । कुर्वाणश्चरणन्यासं, सलीलं राजहंसवत् ॥ ६५ ॥ भिया रसातलमिव, विविक्षुभिरधोमुखैः । तीक्ष्णतुण्डैः कण्टकैरप्यनाक्लिष्टपरिच्छदः ।। ६६ ।। उपास्यमानो युगपद्, ऋतुभिर्निखिलैरपि । कर्त्तुं प्रायश्चित्तमिवाऽनङ्गेसाहाय्यपाप्मनः ॥ ६७ ॥ मार्गार्वनीरुहैरुच्चैर्दूरान्नमितमूर्द्धभिः । अपँसंज्ञैरपि नमस्क्रियमाण इवाऽभितः ॥ ६८ ॥ तालवृन्तानिलेनेव, मृदुना शीतलेन च । अनिलेनाऽनुकूलेन, सेव्यमानो निरन्तरम् ॥ ६९ ॥ न शुभं स्वामिवामानामिति ज्ञात्वेव पक्षिभिः । प्रदक्षिणं प्रोत्तरद्भिर्लयमानाग्रवर्त्मकः ॥ ७० ॥ १ औषधेन । २ स्वचक्रपरचक्रभवेन । ३ केवलज्ञानम् । ४ कमलेषु । ५ कामसाहाय्यपापस्य । ६ मार्गवृक्षैः । ७ निश्वटैः । ८ स्वामिप्रतिकूलानाम् । प्रथमं पर्व षष्ठः सर्गः श्रीऋषभस्वामि चरितम् । ऋषभजिना तिशयाः । ॥ ३०२ ॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399