________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२९६ ॥
पादपर्यन्तवल्मीकविनिर्यातैर्महोरगैः । पादयोर्वेष्टयाञ्चक्रे, स पादकटकैरिव ।। ७७७ ।। इत्थं स्थितस्य ध्यानेन, तस्यैको वत्सरो ययौ । विनाऽऽहारं विहरतो, वृषभस्वामिनो यथा ।। ७७८ ॥ पूर्णे तु वत्सरे विश्ववत्सलो वृषभध्वजः । आहूय भगवान् ब्राह्मीसुन्दर्यावेवमादिशत् ।। ७७९ ॥ स इदानीं बाहुबलिः, क्षीणप्रचुरकर्मकः । शुक्लचतुर्दशीरात्रिरिव प्रायेण निस्तमाः ।।७८० ॥ मानात् स मोहनीयांशाज्ज्ञानं नाऽऽप्नोति केवलम् । तिरोहितः काण्डपटेनाऽप्यर्थो न हि दृश्यते ॥७८१ ॥ युवयोर्वचसा मानं, सद्यस्त्यक्ष्यति सोऽद्य तत् । योतं तस्योपदेशाय, समयः खलु वर्त्तते ।। ७८२ ।। तामाज्ञां शिरसाऽऽदाय, नत्वा च चरणौ प्रभोः । प्रति बाहुबलिं ब्राह्मीसुन्दयौँ चेलतुस्ततः ॥७८३ ॥ ज्ञात्वाऽपि तन्मानमुपेक्षाञ्चक्रे वत्सरं प्रभुः । अगूढलक्ष्या अर्हन्तः, समये ह्युपदेशकाः ।। ७८४ ॥ ते आर्ये जग्मतुस्तत्र, देशे वल्लीतिरोहितम् । रत्नं रजश्छन्नमिवाऽलक्षयेतां न तं मुनिम् ।। ७८५ ।। मुहुरन्वेषयन्तीभ्यां, ताभ्यामथ तथास्थितः । उपालक्षि कथञ्चित् स, वृक्षेभ्यो ह्यविशेषभाक् ।। ७८६ ॥ निपुणं लक्षयित्वा तं, कृत्वा त्रिश्च प्रदक्षिणाम् । महामुनि बाहुबलिं, ते वन्दित्वैवमूचतुः ।। ७८७ ॥ आज्ञापयति तातस्त्वां, ज्येष्ठार्य ! भगवानिदम् । हस्तिस्कन्धाधिरुढानामुत्पद्येत न केवलम् ॥७८८ ॥ इत्युदित्वा भगवत्यौ, जग्मतुस्ते यथागतम् । सोऽपि विस्मयमानोऽन्तर्महात्मैवमचिन्तयत् ।। ७८९ ।। त्यक्तसावधयोगस्य, कायोत्सर्गजुषस्ततः । अस्मिस्तरोरिवाऽरण्ये, ममेभारोहणं कुतः ? ॥७९० ॥ इमे भगवतः शिष्ये, भाषेते न मृषा क्वचित् । तत् किमेतदहो ! यद्वा, हुं ज्ञातं हि चिरान्मया ॥७९१ ।। १ पटखण्डेन ।२ गच्छतम् । ३ हस्त्यारोहणम् ।
C|ब्राह्मी
सुन्दरीकृतः प्रतिबोधः ।
॥२९६ ॥