SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते को हि व्रतगरिष्ठानां, कनिष्ठानां नमस्क्रियाम् । कर्तेति मान एवेभस्तमारुढोऽस्मि निर्भरम् ।। ७९२ ॥ जगत्त्रयगुरोस्तस्य, चिरं सेवाजुषोऽपि मे । नाऽभूद् विवेकस्तरणं, कुलीरस्येव वारिणि ॥७९३ ।। प्रतिपन्नव्रतेष्वादौ, स्वभ्रातृषु महात्मसु । कनिष्ठा इति यत् तेषु, नाऽभून्मम विवन्दिषा ॥७९४ ।। इदानीमपि गत्वा तान्, वन्दिष्येऽहं महामुनीन् । चिन्तयित्वेति स महासत्त्वः पादमुदक्षिपत् ।। ७९५ ।। लतावल्लीवत् त्रुटितेष्वभितो घातिकर्मसु । तस्मिन्नेव पदे ज्ञानमुत्पेदे तस्य केवलम् ।।७९६ ।। उत्पन्नकेवलज्ञानदर्शनः सौम्यदर्शनः । रवेरिव शशी सोऽथ, जगाम स्वामिनोऽन्तिकम् ॥ ७९७ ॥ प्रदक्षिणां तीर्थकृतो विधाय, तीर्थाय नत्वा च जगन्नमस्यः । महामुनिः केवलिपर्षदन्तस्तीर्णप्रतिज्ञो निषसाद सोऽथ ।। ७९८ ।। प्रथम पर्व | पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् । ॥२९७ ॥ || बाहुबलेः केवलज्ञानोत्पत्तिः। - - - - - - - - - इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्ठिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि बाहुबलिसङ्ग्राम-दीक्षा-केवलज्ञानसङ्कीर्त्तनो नाम | पञ्चमः सर्गः । ॥२९७ ।। - - १ कर्कटस्य जलजन्तुविशेषस्य । २ वन्दितुमिच्छा । ३ जगतां नमस्करणीयः ।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy