________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
पञ्चमः
|सर्गः श्रीऋषभस्वामिचरितम् ।
।।२९५ ॥
अधोवहद्वारिभवैः, शैवलैश्चरणद्वयम् । तस्योद्वसग्रामवापीसोपानवदलिप्यत ॥७६४ ।। हिमतौ हिमेसातद्विपदघ्नसरित्यपि । सोऽस्थात् कर्मेन्धनप्लोषोधुक्तध्यानामिना सुखम् ।। ७६५ ।। हैमनीषु हिमप्लृष्टद्रुषु रात्रिषु कुन्दैवत् । धर्म्य ध्यानं बाहुबलेरुज्जजृम्भे विशेषतः ।। ७६६ ।। तस्मिन्नरण्यमहिषा, विाणाच्छोटपूर्वकम् । महातरुस्कन्ध इव, स्कन्धकण्डूयनं व्यधुः ॥७६७ ॥ वपुषा तद्वपुरवष्टभ्य शैलतटीमिव । वार्धीणसकुलान्यन्वभूवन्निद्रासुखं निशि ॥७६८ ॥ सल्लकीपल्लवभ्रान्त्या, तत्पाणिचरणं मुहुः । कर्षन्तः कष्टुमसहा, वैलक्ष्यं करिणो ययुः ।। ७६९ ।। उत्कण्टककरालाभिर्जिह्वाभिः करपत्रवत् । विश्वस्तास्तं लिहन्ति स्मोदीननाश्चमरीगणाः ॥७७० ।। लताभिः शतशाखाभिः, प्रसरन्तीभिरुच्चकैः । मुरंजश्चर्मव/भिरिव सोऽवेष्ट्यताऽभितः ॥ ७७१ ॥ परितस्तं शरस्तम्बाः, प्ररोहन्ति स्म सन्तताः । पूर्वस्नेहवशायातशराढ्यशरधिश्रियः ।। ७७२ ।। उद्ययुः पादयोस्तस्य, प्रावृट्पङ्कनिमग्नयोः । चलच्छतपदीगर्भा, अदभ्रा दर्भसूचयः ।। ७७३ ॥ प्रचक्रिरे कुलीयांश्च, तद्देहे वल्लिसङ्कुले । परस्पराविरोधेन, ते श्येनचटकादयः ॥७७४ ॥ अरण्यकेकिकातस्त्रस्तास्तत्र महोरगाः । वल्लीवितानगहने, समारोहन् सहस्रशः ।। ७७५ ।। शरीरमधिरुद्वैस्तैर्लम्बमानैर्भुजङ्गमैः । बभौ बाहुबलिर्बाहुसहस्रमिव धारयन् ।। ७७६ ।। १ निर्जनग्रामवापीसोपानवत् ।२ हिमसाद्भूतगजप्रमाणसरिति । ३ हेमन्तर्तुसम्बन्धिनीषु । ४ हिमदग्धवृक्षासु । ५ माध्यकुसुमवत् । ६ शृङ्गाच्छोटनपूर्वकं ।। ७ गण्डकाख्यः पशुविशेषः । ८ ऊर्ध्वमुखाः ।९ मृदङ्गः ।१० कीटविशेषः । ११ नीडानि । १२ अटवीमयूरवाणीतः ।
बाहुबलेर्दीक्षा ।
॥२९५ ॥