________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।। २९४ ।।
सुनन्दानन्दनमुनेर्गुणस्तवनपूर्विकाम् । स्वनिन्दामित्यथाऽकार्षीत्, स्वापवादगदौषधीम् ॥७४९ ॥ धन्यस्त्वं तत्यजे येन, राज्यं मदनुकम्पया । पापोऽहं यदसन्तुष्टो, दुर्मदस्त्वामुपाद्रवम् ।।७५० ।। स्वशक्ति ये न जानन्ति, ये चाऽन्यायं प्रकुर्वते । जीयन्ते ये च लोभेन, तेषामस्मि धुरन्धरः ॥७५१ ॥ राज्यं भवतरो/जं, ये न जानन्ति तेऽधमाः । तेभ्योऽप्यहं विशिष्ये तदजहानो विदन्नपि ।। ७५२ ।। त्वमेव पुत्रस्तातस्य, यस्तातपथमन्वगाः । पुत्रोऽहमपि तस्य स्यां, चेद् भवामि भवादृशः ।। ७५३ ॥ विषादपङ्कमुन्मूल्य, पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं, तद्राज्ये स न्यवीविशत् ।।७५४ ।। तदादि सोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ।।७५५ ।। ततो बाहुबलि नत्वा, भरतः सपरिच्छदः । पुरीमयोध्यामगमत्, स्वाराज्यश्रीसहोदराम् ।।७५६ ॥ भगवानपि तत्रैकस्तस्थौ बाहुबलिर्मुनिः । भूमेरिव समुद्भूतोऽवतीर्णो गगनादिव ।। ७५७ ॥ ध्यानैकतानो नासान्तविश्रान्तनयनद्वयः । निष्कम्पः स मुनिः शङ्कुरिव दिक्साधनो बभौ ॥७५८ ।। विकिरन्तीं वह्निकणानिवोष्णान् वालुकाकणान् । उष्ण वात्यां देहेन, स सेहे वनवृक्षवत् ॥७५९ ॥ अग्निकुण्डमिव ग्रीष्ममध्यन्दिनरविं च सः । शुभध्यानसुधामनो, नाऽज्ञासीन्मूद्यपि स्थितम् ।। ७६० ॥ आशिरैःप्रपदं ग्रीष्मतापात् स स्वेदवारिभिः । रजःपङ्कीकृतैः क्रोर्ड, इवाऽभात् पङ्कनिर्गतः ॥७६१ ॥ स प्रावृषि महाझञ्झानिलघूर्णितपादपैः । धारासारैर्गिरिरिव, नाऽभिद्यत मनागपि ।। ७६२ ॥ विद्युत्पातेषु निर्घातकम्पिताद्रिशिरःस्वपि । न कायोत्सर्गतो नाऽपि, ध्यानतः प्रचचाल सः ॥७६३ ।। * लिर्नृपः १ स्थाणुरिव । २ ग्रीष्मर्तृवातसमूहम् । ३ आमस्तकपादाग्रम् । ४ सूकरः ।
बाहुबलेर्दीक्षा।
।।२९४ ।।