________________
त्रिषष्टिशलाका
पुरुषचरिते
।। २९३ ॥
राज्यलक्ष्मीरमावास्यारात्रिवद् भूरितामसा । उज्झाञ्चकार तृणवत्, तातोऽप्येनां कुतोऽन्यथा ? ।। ७३४ ॥ तस्य तातस्य पुत्रेण, सताऽप्येषा मया चिरात् । दुर्वृत्तत्वेन विज्ञाता, ज्ञास्यत्यन्यः कथं ह्यमूम् ॥ ७३५ ।। सर्वथा त्यजनीयेयमिति निश्चित्य चेतसि । महामना बाहुबलिरित्यूचे चक्रवर्त्तिनम् ॥ ७३६ ।। तितिक्षस्व क्षमानाथ !, राज्यमात्रकृतेऽपि यत् । द्विषन्निव मया भ्रातरेवं त्वमसि खेदितः ॥ ७३७ ॥ महाभवद्द्रदेऽमुष्मिस्तन्तुपाशसहोदरैः । भ्रातृपुत्रकलत्राद्यै, राज्येन च कृतं मम ॥ ७३८ ॥ त्रिजगत्स्वामिनो विश्वाभयदानैकसत्रिणः । एष पान्थीभविष्यामि, पथि तातस्य सम्प्रति ॥ ७३९ ॥ इत्युदित्वा महासत्त्वः, सोऽग्रणीः शीघ्रकारिणाम् । तेनैव मुष्टिना मूर्ध्न, उद्वृधे तृणवत् कच्चान् ॥ ७४० ॥ साधु साध्विति सानन्दं, निगदन्तो दिवौकसः । बाहुबलेरुपरिष्टात्, पुष्पवृष्टि वितेनिरे ।। ७४१ ॥ सोऽप्येवं चिन्तयामास, प्रतिपन्नमहाव्रतः । किं तातपादपद्मान्तमहं गच्छामि सम्प्रति ? ।। ७४२ ।। नोवा यास्यामि पूर्वात्तव्रतानां ज्ञानशालिनाम् । मध्येऽनुजानामपि मे, यल्लघुत्वं भविष्यति ॥ ७४३ ॥ इहैव दग्ध्वा घातीनि कर्माणि ध्यानवह्निना । अवाप्तकेवलज्ञानो, यास्यामि स्वामिपर्षदि ॥ ७४४ ॥ मनस्वी चिन्तयन्नेवं, प्रलम्बितभुजद्वयः । कायोत्सर्गेण तत्रैवाऽस्थाद् रत्नप्रतिमेव सः ।। ७४५ ॥ भरतस्तं तथा दृष्ट्वा, विचार्य स्वं कुकर्म च । बभूव न्यञ्चितग्रीवो, विविक्षुरिव मेदिनीम् ।। ७४६ ॥ शान्तं रसं मूर्त्तमिव, भ्रातरं प्रणनाम सः । नेत्रयोरश्रुभिः कोष्णैः, कोपशेषमिवोत्सृजन् ।। ७४७ ॥ भरतः प्रणमंस्तस्याऽधिकोपास्तिविधित्सया । नखादर्शेषु सङक्रान्त्या, नानारूप इवाऽभवत् ॥ ७४८ ॥ १ तन्तुपाशसदृशैः । २ केशान् । नम्रीभूतग्रीवः । ४ प्रवेष्टुमिच्छुः । ५ अधिकोपासनां विधातुमिच्छया ।
प्रथमं पर्व पञ्चमः सर्गः
श्रीऋषभ -
स्वामिचरितम् ।
बाहुबले
दक्षा ।
॥ २९३ ॥