________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः
सर्गः
॥२९२ ।।
श्रीऋषभस्वामिचरितम् ।
विधेयमथवा सर्वमिदं पश्चादमुष्य हि । जानामि प्रथमं तावदलङ्कर्मीणतावधिम् ।। ७२१ ॥ एवं विमृशतस्तक्षशिलाभर्तुरुपेत्य तत् । चक्रे प्रदक्षिणां चक्रमन्तेवासी गुरोरिव ॥७२२ ।।
॥षड्भिः कुलकम् । न चक्रं चक्रिणः शक्तं, सामान्येऽपि स्वगोत्रजे । विशेषतस्तु चरमशरीरे नरि तादृशे ॥७२३ ॥ चक्रं चक्रभृतः पाणिं, पुनरप्यापपात तत् । वासयष्टिं खग इव, तुरङ्ग इव मन्दुरीम् ।।७२४ ॥ विषं विषधरस्येवाऽमोघं मारणकर्मणि । इदमेवाऽस्त्रसर्वस्वमस्य नाऽन्यदतः परम् ।। ७२५ ॥ मयि दण्डायुधे चक्रमोक्षादन्यायकारिणम् । तदेनमेष मृद्नामि, सचक्रमपि मुष्टिना ।। ७२६ ।। अमर्षाच्चिन्तयित्वैवं, सुनन्दानन्दनो दृढाम् । मुष्टिमुद्यम्य यमवद्, भीषणः समधावत ॥ ७२७ ।। करीवोन्मुद्गरकरः, कृतमुष्टिकरो द्रुतम् । जगाम भरताधीशान्तिकं तक्षशिलापतिः ।। ७२८ ।। मर्यादोर्व्यामिवोदन्वांस्तत्र तस्थौ रयादपि । एवं च स महासत्त्वश्चिन्तयामास चेतसि ॥ ७२९ ।। अहो ! राज्यस्य लुब्धेन, लुब्धकादपि पापिना । अमुनेव समारब्धो, धिग् धिग् भ्रातृवधो मया ॥७३०॥ यदादावपि हन्यन्ते, भ्रातृभ्रातृव्यकादयः । शाकिनीमन्त्रवत् तस्य, राज्यस्याऽर्थे यतेत कः ? ।। ७३१ ॥ राज्यश्रिया प्राप्तयाऽपि, यथेच्छं भुक्तयाऽपि च । सुरयेव सुरापस्य, पुंसस्तृप्तिर्न जायते ॥७३२ ॥ भवेदाराध्यमानाऽपि, प्राप्य स्तोकमपि च्छलम् । राज्यलक्ष्मीः क्षणात् क्षुद्रदेवतेव पराङ्मुखी ॥७३३ । १ पराक्रमावधिम् । २ शिष्यः । ३ अश्वशालाम् ।४ भरतस्य । ५ समुद्रः । ६ व्याधात् ।७ भ्रातुः पुत्रादयः । ८ मदिरापानकारकस्य ।
भरतबाहुबलियुद्धम् ।
।।२९२ ।।