________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२९१ ।।
अमुना विजितश्चक्रवर्ती किं न भवाम्यहम् ? । मयाऽप्यविजितो विश्वाजय्यस्तच्चक्रवर्त्यसौ ? ॥७०६ ।।। एवं चिन्तयतस्तस्य, चिन्तामणिविडम्बकैः । यक्षराजैः समानीय, चक्रमारोपितं करे ॥७०७ ।। तत्प्रत्ययाच्चक्रिमानी, चक्रं भ्रमयति स्म सः । वात्यावर्त इवाऽम्भोजरजोमण्डलमम्बरे ।।७०८ ॥ कालानल इवाऽकालेऽप्यौर्वानल इवाऽपरः । वज्रानल इवाऽकस्मादुल्कापुञ्ज इवोच्चकैः ।।७०९ ॥ रविबिम्बमिव भ्रस्यद्, विद्युद्गोल इव भ्रमन् ।ज्वालाजालकरालं तच्चक्रं व्योमन्यलक्ष्यत ।।७१०।। ।। युग्मम्।। भ्रम्यमाणं प्रहाराय, तच्चक्रं चक्रवर्तिना । निध्याय दध्यौ मनसि, मनस्वी बहलीपतिः ।। ७११ ।। धिक् तातपुत्रमानित्वमस्य क्षत्रव्रतं च धिक् । मयि दण्डायुधे चक्रादानं यद् भरतेशितुः ॥७१२ ।। समक्षं धुसदामस्योत्तमयुद्धप्रतिश्रवम् । धिगहो ! बालकस्येव, संव्यानादानमीदृशम् ।। ७१३ ।। तेजोलेश्यां तपस्वीव, रुष्टश्चक्रं प्रदर्शयन् । यथैषोऽभापयद् विश्वं, मां बिभाययिषुस्तथा ।।७१४ ।। निजदोर्दण्डदण्डानां, सारं विज्ञातवान् यथा । असौ तथा रथाङ्गस्याऽप्यस्य जानातु विक्रमम् ।। ७१५ ।। एवं चिन्तयतो बाहुबलेर्दोर्बलशालिनः । प्रेर्य सर्वोजसा चक्र, मुमोच भरतेश्वरः ।। ७१६ ॥ दण्डेन दलयाम्याशु, किमिदं जीर्णभाण्डवत् ? । किं वा कन्दुकवत् पश्चात्, क्षिपाम्याहत्य हेलया ? ॥७१७ ॥ शकुलावत् किमथवा, लीलयोल्लालयामि खे ? । यदि वा मेदिनीमध्ये, न्यस्यामि शिशुनालवत् ? ।।७१८ ॥ गृह्णामि पाणिना किं वोल्ललच्चटकपोतवत् ? । अथाऽपहस्तयाम्याराद्, वधान पराधिवत् ? ।। ७१९ ।। अथाऽधिष्ठायकानस्य, सहस्रं यक्षकानमून् । दलयाम्याशु दण्डेन, घरटेन कणानिव ? | ७२० ॥ १ वडवाग्निः । २ दृष्ट्वा । ३ चक्रस्य । ४ उत्पलपत्रिकावत् ।
भरतबाहुबलियुद्धम् ।
।।२९१ ।।