________________
त्रिषष्टि
शलाका
पुरुषचरित
।। २९० ।।
तारागणानामेलकीफलवद् भ्रंशयिष्यति । वैमानिकविमानानि, नीडंवत् पातयिष्यति ।। ६९३ ।। पतन् पर्वतशृङ्गाणि, नौकुवद् दलयिष्यति । महातरुनिकुञ्जानी, निष्पेक्ष्यति तृणौघवत् ॥ ६९४ ।। अपक्वमृत्तिकागोलवच्च भेत्स्यति मेदिनीम् । हस्तादमुष्य दैवाच्चेद्, दण्ड एष पतिष्यति ।। ६९५ ॥ इत्याशङ्काकुलैः सैन्यैः, प्रेक्ष्यमाणोऽमरैरपि । भूपतिश्चक्रिणं तेन दण्डेन शिरसि न्यहन् ।। ६९६ ॥ ।। पञ्चभिः कुलकम् । तेन दण्डाभिघातेन, चक्रवर्ती महीयसा । आकण्ठं प्रविवेशोर्व्या, मुद्गराहतकीलवत् ।। ६९७ ॥ यथाऽस्मत्स्वामिनो दत्तं विवरं देहि नस्तथा । इतीव पेतुर्मेदिन्यां विषण्णाश्चक्रिसेवकाः ।। ६९८ ॥ राहुग्रस्त इवाऽऽदित्ये, भूमग्ने चक्रवर्तिनि । तुर्मुलोऽभूद् भुवि महान्, नृणां दिवि दिवौकसाम् । ६९९ ।। निमीलिताक्षः श्यामास्यः, षट्खण्डभरतेश्वरः । लज्जयेव महीमध्ये, क्षणमेकमवास्थित ।। ७०० ।। अथैकस्य क्षणस्याऽन्ते, तेजसा सोऽतिभासुरः । निर्ययाववनीमध्यान्निशान्त इव भास्करः ।। ७०१ ॥ सोऽथैवं चिन्तयामास, युद्धेषु निखिलेष्वपि । जितोऽहममुना द्यूतेष्विवाऽन्धद्यूतकारकः ।। ७०२ ॥ किं स्यादस्योपयोगाय, साधितं भरतं मया ? । गोदोहकस्येव गवा, जग्धं दूर्वातृणादिकम् ।। ७०३ ॥ एकस्मिन् भरतक्षेत्रे, युगपच्चक्रवर्तिनौ । उभावसी कोश इव, न च दृष्टौ न वा श्रुतौ ॥ ७०४ ॥ इन्द्रो विजीयते देवैश्चक्रवर्ती च पार्थिवैः । अनाकर्णितपूर्वं नश्चेदं खरविषाणवत् ।। ७०५ ।
१ एतदाख्यवृक्षफलवत् । २ पक्षिगृहवत् । ३ वल्मीकवत् । ४ कोलाहलः । ५ रात्र्यन्ते । ६ भुक्तम् ।
प्रथमं पर्व
पञ्चमः
सर्गः
श्रीऋषभस्वामिचरितम् ।
भरत
बाहुबलियुद्धम् ।
।। २९० ।।