________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२८९ ।।
प्रियमित्रमिवाऽऽलम्ब्याऽविलम्बाद् बाहुपौरुषम् । चक्रभृद् दण्डमुद्यम्य, भूयो राज्ञेऽभ्यधावत ॥६७९ ॥ पीडयन्नधरं दन्तैर्भूकुटीभङ्गभीषणः । भरतोऽभ्रमयद् दण्डमौर्वावर्तविडम्बिनम् ।। ६८० ॥ मूर्ध्नि बाहुबलिं तेन, चक्रपाणिरताडयत् । तडिद्दण्डेन कल्पान्तजीमूत इव पर्वतम् ॥ ६८१ ।। ममज्जाऽऽजानु घातेन, तेन बाहुबलिर्भुवि । लोहाधिकरणीमध्ये, वोपल इवाऽऽहतः ।। ६८२ ॥ आस्फल्य बाहुबलिनि, वज्रसारे व्यशीर्यत । स्वेन तेनाऽऽगसा भीत, इव दण्डः स भारतः ।। ६८३ ॥ आजानु मनो मेदिन्यामवगाढ इवाऽचलः । निष्क्रान्तशेषः शेषाहिरिव बाहुबलिर्बभौ ।। ६८४ ।। अधूनयत् स मूर्धानं, घातवेदनया तया । अन्तश्चमत्कृत इव, ज्यायसो भ्रातुरोजसा ।। ६८५ ॥ आत्माराम इव योगी, न किञ्चिदशृणोत् क्षणम् । तदा बाहुबलिस्तेन, घातेन प्राप्तवेदनः ।। ६८६ ।। निर्ययौ मेदिनीमध्यात्, सुनन्दानन्दनस्ततः । आश्यानकूलिनीकूलपङ्कमध्यादिव द्विपः ।। ६८७ ॥ लाक्षारसारुणैदृष्टिपातैरातर्जयन्निव । स्वौ दोर्दण्डौ च दण्डं चाऽपश्यत् सोऽमर्षणाग्रणीः ।। ६८८ ।। दुष्प्रेक्षं तक्षकमिवाऽभीक्ष्णं तक्षशिलापतिः । ततस्तं भ्रमयामास, दण्डमेकेन पाणिना ।। ६८९ ॥ सुनन्दासूनुना दण्डो, भ्रम्यमाणोऽतिवेगतः । राधावेशपरिभ्राम्यच्चक्रलक्ष्मीमुवाह सः ॥ ६९० ।। कल्पान्तसागरावर्तगर्तभ्रान्तादिमत्स्यवत् । स भ्राम्यन् प्रेक्ष्यमाणोऽपि, भ्रमि व्यघित चक्षुषाम् ।। ६९१ ।। उत्पतस्तपनं कांस्यपात्रवत् स्फोटयिष्यति । भारुण्डाण्डवदृक्षेशमण्डलं चूर्णयिष्यति ।। ६९२ ।। १ वडवानलः । २ कल्पान्तमेधः । ३ वज्रमणिः । ४ शेषनागः । ५ शुष्कनदीतटपङ्कमध्यात् । ६ नागविशेषम् । ७ सूर्यम् । ८ भारण्डपक्षिणः अण्डवत् । ९चन्द्रमण्डलम् ।
भरतबाहुबलियुद्धम्।
||२८९ ॥