________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२८८ ॥
तेनोदस्तेन दण्डेन, चकासामास चक्रभृत् । चूलयेवाऽचलश्छायापथेनेव मरुत्पथः ।। ६६४ ।। अथ तं दण्डमुत्पातकेतुभ्रमविधायिनम् । नभसि भ्रमयामास, क्षणं भरतभूपतिः ।। ६६५ ।। पञ्चाननयुवा पुच्छदण्डेनेव महीतलम् । शिरस्यताडयच्चक्री, तेन दण्डेन भूपतिम् ।। ६६६ ।। समास्फलन्त्या सह्याद्रौ, वेलयेव महोदधेः । तन्मूर्ध्नि चक्रिणो दण्डघातेनाऽभून्महान् ध्वनिः ।। ६६७ ।। दण्डेनाऽचूर्णयच्चक्री, किरीटं मूर्ध्नि भूपतेः । अयोधनेनाऽय इवाऽधिकरण्यामवस्थितम् ।। ६६८ ॥ किरीटरत्नखण्डानि, निपेतुर्नुपमूर्धतः । वातान्दोलितवृक्षाग्रादिव पुष्पाणि भूतले ।। ६६९ ॥ भूपतिस्तेन घातेन, क्षणं मुकुलितेक्षणः । तन्नि?षेण घोरेण, लोकश्च समजायत ।। ६७० ॥ उन्मील्य नयने हस्तेनाऽऽददे बाहुबल्यपि । उद्दण्डमायसं दण्डं, साङ्ग्रामिक इव द्विपः ।। ६७१ ॥ पाटयिष्यत्यसौ किं मां ?, किं मामुत्पाटयिष्यति ? । इत्याशशङ्के स घावापृथिवीभ्यां यथाक्रमम् ।। ६७२ ।। रेजे बाहुबलेर्मुष्टौ, लोहदण्डः स आयतः । पर्वतस्याऽग्रभागस्थवामलूर इवोरगः ।। ६७३ ॥ दूरतोऽप्यन्तकाह्वानसंज्ञावस्त्रमिवाऽथ तम् । भृशमुद्धमयामास, दण्डं तक्षशिलापतिः ।। ६७४ ।। निर्दयं हृदये तेन, चक्रिणं बहलीपतिः । ताडयामास लकुटेनेव बीजस्य मूटकम् ॥ ६७५ ॥ तेन घातेन घटवद्, द्रढीयानपि खण्डशः । विशीर्यते स्म सहसा, सन्नाहश्चक्रवर्तिनः ।।६७६ ।। निरभ्र इव मार्तण्डो, निधूम इव पावकः । शीर्णवर्मा चक्रवर्ती, दिद्युतेऽमर्षतोऽधिकम् ॥ ६७७ ॥ क्षणार्धं विह्वलीभूतो, नाऽचेतयत किञ्चन । भरतः सप्तममदावस्थाप्राप्त इव द्विपः ॥ ६७८ ॥ १ सिंहयुवा । २ लोहशिलायाम् ।३ दण्डेन । ४ निर्मेघः ।
भरतबाहुबलियुद्धम् ।
||२८८ ॥