________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
॥२८७॥
भरत
सङ्गीतवदरण्यान्यां, हिमान्यां वह्निपातवत् । मुधाऽभूच्चक्रिणो मुष्टिप्रहारः पार्थिवोरसि ।। ६५० ॥ ॥ युग्मम्।। अस्मभ्यमपि किं क्रुद्ध, इत्याशङ्क्येक्षितोऽमरैः । उच्चिक्षेपोच्चकैर्मुष्टि, सुनन्दानन्दनोऽप्यथ ।। ६५१ ॥ मुष्टिनाऽताडयत् तेन, स चक्रिणमुरःस्थले । कुम्भस्थले महामात्रोऽयोगोलेनेव कुम्भिनम् ।। ६५२ ।। घातेन तेन दम्भोलिनिपातेनेव पर्वतः । पपात मूर्छाविधुरो, भूतले भरतेश्वरः ।। ६५३ ॥ चकम्पे पतता तेन, भूः पत्येव कुलाङ्गना । पर्वता अप्यवेपन्त, बान्धवेनेव बान्धवाः ।। ६५४ ॥ क्षत्रियाणां कुहेवाकः, कोऽयं वीरव्रताग्रहे ? । विग्रहो निग्रहान्तोऽयं, यत्र भ्रातर्यपीदृशः ।। ६५५ ॥ न जीवेदग्रजश्चेत् तज्जीवितेन ममाऽप्यलम् । एवं मनसि कुर्वाणः, सिञ्चन् नयनवारिभिः ।। ६५६ ॥ स्वमुत्तरीयं व्यर्जेनीकृत्य बाहुबलिस्ततः । भरतं वीजयामास, यो बन्धुर्बन्धुरेव सः ।। ६५७ ।।
॥ त्रिभिर्विशेषकम् ।। चक्री सुप्त इवोत्तस्थौ, लब्धसंज्ञः क्षणादथ । ददर्श च पुरो भृत्यमिव बाहुबलिं स्थितम् ।। ६५८ ।। अधोमुखौ वितस्थाते, बान्धवौ तावुभावपि । पराजयो जयश्चाऽपि, लज्जायै महतामहो ! ।। ६५९ ।। किञ्चित् पश्चात्पदन्यासमपचक्राम चक्रभृत् । पुंसामोजायमानानां, युयुत्सालक्षणं ह्यदः ।। ६६० ॥ युयुत्सुः पुनरप्यायः, शके केनचित् । नोज्झन्ति मानिनो मानं, यावज्जीवं मनागपि ।। ६६१ ।। अवर्णवादो बलवान्, भावी बाहुबलेः खलु । भ्रातृहत्याभवो मन्ये, नैवाऽन्तेऽपि विरंस्यति ।। ६६२ ।। इति सञ्चिन्तयामास, यावद् बाहुबलिः क्षणम् । तावच्चक्रधरो दण्डं, दण्डपाणिरिवाऽऽददे ॥६६३ ॥ १ महति अरण्ये । २ महति हिमे । ३ अड्डशेन । ४ कुस्वभावः । ५ तालवृन्तीकृत्य । ६ यमराजः ।
बाहुबलि
युद्धम् ।
॥२८७ ॥