________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभ|स्वामिचरितम् ।
॥२८६ ॥
पादाग्रपाणतस्तिष्ठन्नुत्पित्सुरिव स क्षणात् । निपतन्तं प्रतीयेषोऽग्रजं गेन्दुकलीलया ॥ ६३६ ।। भरतोत्क्षेपणोद्भूतं, विषादं द्रागबाधत । चम्वोस्तद्रक्षणाद्धर्ष उत्सर्गमपवादवत् ।। ६३७ ॥ लध्वार्षभेर्विवेकेन, भ्रातृरक्षणजन्मना । विद्या शीलगुणेनेव, पौरुषं तुष्टुवे जनैः ।। ६३८ ॥ उपरिष्टाद् बाहुबलेः, पुष्पवृष्टि व्यधुः सुराः । तादृग्वीरव्रतजुषस्तस्येदमथवा कियत् ? ॥६३९ ।। तदा वैलक्ष्यकोपाभ्यां, युगपद् भरतेश्वरः । धूमज इव धूमज्वालाभ्यां समयुज्यत ॥ ६४० ॥ अथ बाहुबलिर्लज्जानमद्वदनपङ्कजः । वैलक्ष्यं ज्यायसो हर्तुमित्युवाच सगद्गदम् ॥ ६४१ ॥ मा विषीद जगन्नाथ!, महावीर्य ! महाभुज! । दैवात् कदाचित् केनाऽपि, विजय्यपि विजीयते ।। ६४२ ॥ एतावता नाऽसि जितो, विजयी चाऽस्मि नेयता । धुणाक्षरन्यायभवं, मन्येऽद्याप्यात्मनो जयम् ॥ ६४३ ॥ इयत्यपि त्वमेवैको, वीरोऽसि भुवनेश्वर! । अमरैर्मथितोऽप्यब्धिरब्धिरेव न दीर्धिका ।। ६४४ ।। फालच्युत इव द्वीपी, षट्खण्ड भरतेश्वर! । किं तिष्ठसि ? समुत्तिष्ठोत्तिष्ठस्व रणकर्मणे ।। ६४५ ।। बभाषे भरतोऽप्येवं, निजदोषस्य मार्जनम् । करिष्यत्येव दोर्दण्डो, मुष्टि प्रगुणयन्नयम् ॥६४६ ।। ततो मुष्टि समुद्यम्य, फणामिव फणीश्वरः । प्रकोपताम्रनयनोऽपेत्याऽधावत चक्रभृत् ।। ६४७ ।। भरतो मुष्टिना तेनाऽऽजधान नृपतेरुरः । कपाटं गोपुरस्येव, दशनेन मतङ्गजः ॥ ६४८ ॥ प्रदानवदसत्पात्रे, बधिरे कर्णजापवत् । सत्कारवच्च पिशुने, जलवृष्टिवदूषरे ।। ६४९ ।। १ उत्पतितुमिच्छुः । २ जग्राह । ३ कन्दुकलीलया । ४ बाहुबलिनः । ५ अग्निः । ६ ज्येष्ठस्य । ७ वापिका । ८ अपसृत्य ।९ मूर्ख । १० क्षारभूमौ ।
भरतबाहुबलियुद्धम् ।
॥२८६ ॥