________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः श्रीऋषभस्वामिचरितम् ।
।।२८५ ॥
क्षणादधः क्षणादूल, कदाचित् कश्चिदप्यभूत् । नियुद्धविज्ञानवशात्, प्राणी कर्मवशादिव ।। ६२२ ॥ उपर्यसावधोऽसावित्यायेतां जनैर्न तौ । जलान्तर्मत्स्यवद् वेगान्मुहुर्विपरिवर्तिनौ ।। ६२३ ।। चक्रतुर्बन्धविज्ञानं, महाही इव तौ मिथः । निरासतुश्च सद्योऽपि, चपलौ प्लवंगाविव ।। ६२४ ।। मुहुर्महीलुठनतस्तावुभौ धूलिधूसरौ । बभासाते प्राप्तधूलीभदौ मदकलाविव ।। ६२५ ।। असहिष्णुस्तयोर्भार, शैलयोरिव सर्पतोः । पादनिर्धातनिर्घोषादारराटेव मेदिनी ।। ६२६ ॥ अथ बाहुबलिः क्रुद्धः, करेणैकेन चक्रिणम् । शरभः कुञ्जरमिवोदग्रहीदुग्रविक्रमः ।। ६२७ ॥ व्योमन्युल्लालयामास, स तं रुपमिव द्विपः । अहो ! निरवधिः सर्गो, बलिनो बलिनामपि ।। ६२८ ॥ चापादिषुरिवोन्मुक्तः, पाषाण इव यन्त्रतः । तारापथपथे दूर, जगाम भरतेश्वरः ।। ६२९ ।। भरतेशादापततः, शक्रमुक्तात् पवेरिव । पलायाञ्चक्रिरे सर्वे, खेचराः समरेक्षिणः ।।६३० ।। हाहारवो महान् जज्ञे, सेनयोरुभयोरपि । कस्य दुःखाकरो न स्यान्महतां ह्यापदागमः ? ॥६३१ ।। धिग् मे बलमिदं बाहोर्धिग धिग्रामसिकं च माम् । एतत् कर्मापक्षकांश्च, धिग् राज्यद्वयमन्त्रिणः ।। ६३२ ॥ किं वा विगर्हितैरेभिर्यावदद्याऽपि मेऽग्रजः । पतित्वा मेदिनीपृष्ठे, कणशो न विशीर्यते ॥६३३ ।। तावत् पतन्तं गगनात्, प्रतीच्छामीति चिन्तयन् । तल्पकल्पौ भुजौ तस्याऽधो दधौ बाहुबल्यपि ।। ६३४ ॥
॥त्रिभिर्विशेषकम् ।। ऊर्ध्वबाहुव्रतीवोर्ध्वबाहुर्बाहुबलिः क्षणम् । तस्थौ दिनकरालोकव्रतीव च तदोन्मुखः ॥६३५ ।। १ वानरौ । २ हस्तिनौ । ३ आचुक्रोश । ४ अष्टापदः । ५ पशुम् । ६ गगनमार्गे । ७ वजात् । ८ साहसिकम् । ९ शय्यातुल्यौ ।
भरतबाहुबलि
युद्धम् ।
।।२८५ ।।