________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व | पञ्चमः |सर्गः श्रीऋषभस्वामिचरितम् ।
।।२८४ ॥
शास्त्रीयवाग्युद्धेऽप्येवं, वादिना प्रतिवाद्यसौ । वीरेण बाहुबलिना, विजिग्ये भरतेश्वरः ।।६०७ ॥ अथ तौ बाहयुद्धार्थमुभावपि हि बान्धवौ । बबन्धतुः परिकर, बद्धकक्षद्विपोपमौ ।। ६०८ ।। अथ बाहुबलेनर्जन्नुढेल इव वारिधिः । स्वर्णदण्डधरः स्माऽऽह, प्रतीहाराग्रणीरिति ।। ६०९ ।। वज्रकीलानिव शैलानवष्टभ्य विशेषतः । आस्थाव स्थाम चाऽशेषमपि पृथ्वि ! स्थिरीभव ॥६१० ॥ परितः पूरयित्वा च, कुम्भयित्वा च मारुतम् । हे नागराज ! नगवद्, दृढीभूय धरां धर ।। ६११ ॥ लुठित्वा वारिधेः पङ्के, विहायाऽग्रेतनं श्रमम् । पुनर्नवीभूय महाक्रोड ! क्रोडीकुंरु क्षितिम् ॥ ६१२ ॥ वज्रमानिन् ! निजाङ्गानि, सङ्कोच्य परितोऽपि हि । स्वपृष्ठं कर्मठप्रष्ठ!, द्रढयित्वा महीं वह ॥ ६१३ ॥ प्रमादतो मदतो वा, निद्रां मा धत्त पूर्ववत् । सर्वात्मना सावधाना, वसुधां धत्त दिग्गजाः ।। ६१४ ।। वज्रसारो बाहुबलिर्वज्रसारेण चक्रिणा । यदसौ मल्लयुद्धेन, योद्भुमुत्तिष्ठतेऽधुना ।। ६१५ ।। महामल्लौ तडिद्दण्डताडितादिरवोपमम् । विदधानौ करास्फोटमालासातां मिथोऽथ तौ ।। ६१६ ॥ तौ सलीलपदन्यासं, चेलतुश्चलकुण्डलौ । सार्केन्दू घातकीखण्डात्, क्षुद्रमेरु इवाऽऽगतौ ।। ६१७ ॥ तावन्योऽन्यं कराभ्यां चाऽऽस्फालयामासतुः करौ । नदन्तौ बलवद्दन्तौ, दन्ताभ्यां दन्तिनाविव ।।६१८ ॥ अयुज्येतां क्षणेनाऽपि, व्ययुज्येतां क्षणेन च । तावासन्नमहावृक्षाविवोद्दण्डानिलेरितौ ।। ६१९ ॥ उत्पेततुः क्षणेनाऽपि, क्षणेनाऽपि निपेततुः । वीरौ तौ दुर्दिनोन्मत्तमहाम्भोधितरङ्गवत् ।। ६२० ॥ अथ स्नेहादिवाऽमर्षाद्, धावित्वा तावुभावपि । अङ्गेनाऽङ्गं पीडयन्तौ, सस्वजाते महाभुजौ ।। ६२१ ॥ १ बलम् । २ स्तम्मयित्वा । ३ हे महावराह् । ४ मध्येकुरुः । ५ हे कूर्मश्रेष्ठ! । ६ आलिग्नित्तवन्तौ ।
भरतबाहुबलियुद्धम् ।
।।२८४ ॥