________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः |सर्गः श्रीऋषभस्वामिचरितम् ।
॥२८३ ॥
रश्मि नाऽजीगणन् रथ्या, गुर्वाज्ञामिव दुर्धियः । संणीन् नाऽमानयन् नागाः, पिशुना इव सद्गिरम् ।।५९४ ।। अश्वा नाऽज्ञासिषुर्वल्गा, कटुत्वं श्लेष्मला इव । मेया नाऽगणयन् नासारखं लज्जां विटी इव ।। ५९५ ।। न वेसराः कशाधातं, भूताविष्टा इवाऽविदन् । त्रस्यन्तस्तेन नादेन, न केऽपि स्थैर्यमादधुः ।। ५९६ ।। अथाऽऽपतत्पक्षिराजपक्षनिर्घोषबुद्धितः । पातालतोऽपि पातालं, विविक्षुभिरिवोरगैः ॥ ५९७ ।। अन्तःप्रविष्टमन्थाद्रिमन्थनध्वानशङ्कया । मध्येजलधि यादोभिस्त्रस्यद्भिः सर्वतोऽपि च ।। ५९८ ॥ भूयो जम्मारिनिर्मुक्तदम्भोलिध्वनितभ्रमात् । क्षयं स्वस्याऽऽशङ्कमानैः, कम्पमानैः कुलाचलैः ।। ५९९ ।।। कल्पान्तपुष्करावर्तमुक्तविद्युद्ध्वनिभ्रमात् । लुठद्भिरवनीपीठे, मध्यलोकनिवासिभिः ।। ६०० ।। अकाण्डागतदैत्यावस्कन्दकोलाहलभ्रमात् । आकुलैश्चाऽमरकुलैः, श्रुयमाणोऽतिदुःश्रवः ।। ६०१ ।। लोकनालिस्पर्द्धयेव, वर्धमानोऽधरोत्तरम् । विदधे बाहुबलिना, सिंहनादोऽतिभैरवः ।। ६०२ ॥
॥षड्भिः कुलकम् ।। भूयो व्यघत्त भरतः, सिंहनादं महाबलः । वैमानिकानां वनितासासयन्तं मृगीरिव ।। ६०३ ॥ एवं क्रमेण चक्राते, चक्रिभूपौ महाध्वनिम् । जगतो मध्यमस्याऽस्य, क्रीडया भीषकाविव ।। ६०४ ॥ हस्तो मतङ्गजस्येव, शरीरं दृक्श्रुतेरिव । अहीयततमा शब्दः, क्रमेण भरतेशितुः ।।६०५ ॥ सिंहनादो बाहुबलेर्ववृधे त्वधिकाधिकम् । प्रवाहः सरित इव, सज्जनस्येव सौहृदम् ।। ६०६ ॥ १ प्रगहान् । २ रथयोजिताश्वाः । ३ अड्डशान् । ४ श्लेष्मरोगिणः । ५ उष्ट्राः । ६ जाराः ।७ गरुडः ८ इन्द्रः । ९ सर्पस्य । १० अतिशयेन हीनोऽभवत् ।
|भरतबाहुबलि
युद्धम् ।
।। २८३ ।।