________________
प्रथमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
पञ्चमः
सर्गः श्रीऋषभस्वामिचरितम् ।
॥२८२ ॥
उभौ मिथो निध्यायन्तौ, ध्यायन्ताविव योगिनौ । चिरकालं वितस्थाते, तौ निश्चलविलोचनौ ॥ ५८०॥ दिवाकरकराक्रान्तनीलोत्पलवदीक्षणे । ज्येष्ठस्य ऋषभस्वामिनन्दनस्य न्यमीलताम् ।। ५८१ ॥ कीर्तेर्महत्या भरतषट्खण्डजयजन्मनः । वारीवाऽस्रजलव्याजाददातां चक्रिणोऽक्षिणी ।। ५८२ ।। तदा शिरांसि धुन्वानाः, प्रत्यूषे पादपा इव । विदधुर्बाहुबलिनि, पुष्पवृष्टिं दिवौकसः ॥ ५८३ ॥ विजये बाहुबलिनो, वीरैः सोमप्रभादिभिः । हर्षकोलाहलश्चक्रे, सूर्यस्येवोदये खगैः ।। ५८४ ॥ जयतूर्याण्यवाद्यन्त, राज्ञो बाहुबलेर्बलैः । तत्कालं कीर्तिनतक्या, नृत्तारम्भ इवोद्यते ।। ५८५ ॥ अभूवन् भरतस्याऽपि, सैन्या मन्दायितौजसः । मूर्छिता इव संसुप्ता, इव रोगातुरा इव ।। ५८६ ॥ ते विषादप्रमोदाभ्यामयुज्येतामुभे बले । अन्धकारप्रकाशाभ्यां, मेरुपार्थाविवाऽधिकम् ।। ५८७ ।। विजितं काकतालीयन्यायेनेति स्म मा वदः । वाग्युद्धेनाऽपि युध्यस्वेत्यवोचच्चक्रिणं नृपः ।। ५८८ ।। फणीव चरणस्पृष्टः, सामर्षश्चक्रवर्त्यपि । जितकासिन् ! भवत्वेवमित्यभाषत भूपतिम् ॥ ५८९ ॥ ईशानोक्षेव निनदं, शक्रेभ इव बृहितम् । स्तनितं वारिद इवोच्चैः श्वेडां भरतोऽकरोत् ॥ ५९० ॥ रणेक्षकाणां देवानां, विमानान् पातयन्निव । नभस्तो ग्रहनक्षत्रतारकाः संसयन्निव ॥ ५९१ ।। कुलाचलामत्युच्चैः, शृङ्गाणि चलयन्निव । समन्ताज्जलराशीनां, जलान्युच्छालयन्निव ।। ५९२ ॥ व्यानशे प्रसरंस्तस्य, क्ष्वेडानादः स रोदेसी । महास्रवन्त्याः परितः, पूरवारीव रोधेसी ।। ५९३ ॥
। त्रिभिर्विशेषकम् ॥ १ ईशानेन्द्रस्य वृषभ इव ।२ ऐरावत इव ।३ द्यावाभूमी । ४ महानद्याः । ५ तट ।
SARASHARASHARE
भरतबाहुबलियुद्धम् ।
।।२८२ ।।