SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ।। २८१ ।। चकृषुः शृङ्खलाजालं, सैन्याश्चक्रिभुजस्य ते । नेत्रीभूतमहिं मन्थगिरेरिव सुरासुराः ।। ५६५ ।। गाढलग्नाः प्रलम्बासु, चक्रिदोः शृङ्खलासु ते । उत्तुङ्गशाखिशाखाग्रेष्विव शाखामृगा बभुः ।। ५६६ ॥ इमानिवाऽद्रिं भिन्दानान्, कर्षतः स्वं च सैनिकान् । कौतुकप्रेक्षणायोपेक्षाञ्चक्रे चक्रभृत् स्वयम् ।। ५६७ ।। हृद्यङ्गरागं चक्रेऽथ, चक्री तेनैव पाणिना । मालाबद्धघटीमालान्यायात् ते तु सहाऽपतन् ।। ५६८ ॥ निरन्तरं लम्बमानैः, सैनिकैश्चक्रिणो भुजः । रराज खर्जूरतरुशाखा खर्जूकैरिव ।। ५६९ ।। हृष्यन्तः स्वामिनः स्थाम्ना, सैन्यास्तद्द्बाहुशृङ्खलाः । प्राकृतामिव दुःशङ्कामुज्झाञ्चक्रुः क्षणादपि ।। ५७० ॥ चक्रभृत् कुञ्जरारुढस्तदेव समराजिरम् । जग्राह प्राक्तनं, भूयोऽप्युद्राहमिव गायनः ।। ५७१ ।। उभयोः सैन्ययोर्मध्ये, विपुलं विपुलातलम् । गङ्गायमुनयोरन्तर्वेदिदेश इवाऽऽबभौ ।। ५७२ ।। जगत्संहाररक्षातो, मुदिता मरुतस्ततः । आयुक्ता इव शनकैस्तत्रोर्व्यामहरन् रजः ।। ५७३ ॥ गन्धाम्बुवृष्ट्या समवसरणोर्विभिवाऽभितः । तां मेदिनीमभ्यषिञ्चन्नृचितज्ञा दिवौकसः । ५७४ ।। मान्त्रिका मण्डलावन्यामिव तत्र रणावनौ । उन्मेष॑वन्त्यनिमिषाः, कुसुमानि विचिक्षिपुः ।। ५७५ ।। कुञ्जरादवतीर्याऽथ, तावुभौ राजकुञ्जरौ । कुञ्जराविव गर्जन्तौ प्रविष्टौ समरावनिम् ।। ५७६ ।। उभावपि महौजस्कौ, सर्पन्तौ लीलयाऽपि हि । पदे पदेऽरोपयतां, कूर्मेन्द्रं प्राणसंशये ।। ५७७ ।। दृष्टियुबेन योद्धव्यं, प्रतिज्ञायेति तस्थतुः । सम्मुखावनिमेषाक्षौ, शक्रेशानाविवाऽपरौ ।। ५७८ ॥ सम्मुखौ मुखमन्योऽन्यस्यैक्षेतामरुणेक्षणौ । उभयत्र स्थितार्केन्दुसायाह्नगगनश्रियौ ।। ५७९ ।। १ मन्थनरज्जुभूतम् । २ मन्दराचलस्य । ३ कपयः । ४ बलेन । ५ पृथ्वीतलम् । ६ देवाः । ७ विकसितानि । ८ देवाः । प्रथमं पर्व | पञ्चमः सर्गः श्रीऋषभ स्वामि चरितम् । भरत बाहुबलियुद्धम् । ।। २८१ ।।
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy