________________
त्रिषष्टिशलाकापुरुषचरिते
प्रथमं पर्व पञ्चमः सर्गः |श्रीऋषन-- स्वामिचरितम् ।
॥२८०॥
महाकल्लोलिनीपूरस्येव दुस्सहरंहसः । तस्य प्रथमतोऽप्याजौ, स्थातुं भर्तुर्न युज्यते ।। ५५०॥ अस्माभिर्योधिते पूर्व, भस्तित्रोचिते रणः । पूर्वमश्वदमैर्दान्ते, वाजिनीवाऽधिरोहणम् ॥ ५५१ ।। अन्योऽन्यं सैनिकानेवं, गृणतः प्रेक्ष्य चक्रभृत् । भावज्ञ इङ्गित्ताकारैः, समाहूयेत्यभाषत ।। ५५२ ।। तमोनिर्दलने भानोर्यद्वदग्रेसराः कराः । द्विषदायोधने तद्वद्, यूयमग्रेसरा मम ।। ५५३ ।। युष्मासु सत्सु योधिषु, न मां कोऽप्याययौ रिपुः । परिखायामगाधायामिव वप्रतट द्विपः ।। ५५४ ।। अदृष्टपूर्विणो युद्धं, ततो मे यूयमीदृशम् । आशङ्कध्वे मुधा भक्तिपदेऽपीक्षते भयम् ।। ५५५ ।। सर्वे कुरुध्वं सम्भूय, दोर्बलालोकनं मम । शङ्का नश्यति वो येनाऽगदेनेव गदः क्षणात् ।। ५५६ ।। इत्युदित्वा क्षणेनाऽपि, चक्री खनकपूरुषैः । अतिविस्तीर्णगम्भीरं, गर्तमेकमखानयत् ।। ५५७ ।। तीरे दक्षिणपाथोधेरिव सहमहीधरः । अवटस्य तटे तस्योपाविशद् भरतेश्वरः ।। ५५८ ।। वामे स दोष्णिं निबिडाः, शृखलाः प्रतिशृङ्खलाः । अबन्धयल्लम्बमाना, वटवृक्षे जटा इव ।। ५५९ ।। ताभिः सहस्रसद्व्याभिः, सहस्रांशुरिवांऽशुभिः । महाद्रुरिव वल्लीभिश्चकासामास चक्रभृत् ।। ५६०॥ सोऽथ राज्ञ उवाचैवं, यूयं सबलवाहनाः । महाशकटवद् गावो, मामाकर्षत निर्भयम् ॥ ५६१ ।। सर्वे सर्वोजसा कृष्ट्वा, मां गर्ने पातयन्त्विह । मद्दोर्बलपरीक्षार्थ, स्वाम्यवज्ञाछलं न वः ।। ५६२ ॥ दुःस्वप्नोऽप्ययमस्माभिर्दृष्टस्तत् प्रतिहन्यताम् । स हि मोघीभवेदेव, चरितार्थीकृतः स्वयम् ।। ५६३ ॥ भूयो भूयश्चक्रिणवमादिष्टास्ते ससैनिकाः । कथञ्चित् प्रत्यपद्मन्त, स्वाम्याज्ञा हि बलीयसी ।। ५६४ ।। १ दुस्सहवेगस्य । २ युद्धे । ३ एतदाख्यः पर्वतः । ४ गर्तस्य । ५ भुजे । ६ वृषभाः ।
भरतबाहुबलियुद्धम् ।
॥२८०॥